पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८१९
बालमनोरमा ।

१६७९ । परिखाया ढञ् । (५-१-१७)

पारिखेयी भूमि

इति तद्धिते छयतोः पूर्णोऽवधिः ।

अथ तद्धितार्हीयप्रकरणम्

१६८० । प्राग्वतेष्ठञ् । (५-१-१८)

'तेन तुल्यम्- (सू १७७८) इति वतिं वक्ष्यति । ततः प्राक्ठञधि क्रियते ।

१६८१ । आहार्दगोपुच्छसङ्खयापरिमाणाट्ठक् ।(५-१-१९

  तदर्हति (१७२८) इत्येतदभिव्याप्य ठञधिकारमध्ये ठञोडपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ।

तद्योग्यपाषाणेष्टकादिबहुळत्वादिति भावः । अनेन ‘तदर्थं विकृतेः’ इत्यनुवृत्ताविह न स्यादिति सूचितम् । ननु प्रासादो देवदत्तस्य स्यादित्यत्रातिप्रसङ्गादित्यत आह । इतिशब्दो लौकिकीं विवक्षामिति ॥ शिष्टव्यवहारमित्यर्थः । परिखाया ढञ् ॥ पूर्वसूत्रविषये इति शेषः । पारिखेयी भूमिरिति ॥ परिखा अस्या अस्ति अस्यामस्तीति वा विग्रहः । परिखायोग्येत्यर्थः। छयतोः पूर्णोऽवधिरिति ॥ 'प्राग्वतेष्ठञ्' इत्यारभ्य 'द्वित्रिपूर्वादण् च' इत्यन्तैस्सूत्रैः प्रत्ययविशेषेष्वनुक्रान्तेषु “तेन क्रीतम्' इति पठितम्। ततश्च ‘प्राक्क्रीतात्’ इत्युक्तेस्तेष्वपि सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्कयम् । प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यसम्भवादिति भावः

                       इति तद्धिते छयतोरवधिः ।

अथ आर्हीयाः-प्राग्वतेः ॥ वतिशब्दस्तद्धटितसूत्रपरः । तदाह । तेन तुल्यमिति ॥ तेन तुल्यम्' इत्यतः प्राक् येषु सूत्रेषु अर्थी एव निर्दिश्यन्ते नतु प्रत्ययाः तत्र ठञित्युप तिष्ठते इति यावत् । आर्हीदगोपुच्छसङ्खयापरिमाणाट्ठक् ॥ तदर्हतीति सूत्रगते अर्हतिशब्दे एकदेशानुकरणमर्हेति, तच्च तद्धटितसूत्रपरम्, आडभिव्याप्तौ, व्याख्यानात् । तदाह । तदर्हतीति । इत्येतदभिव्याप्येति ॥ इदमपि सूत्रम्प्रत्ययविशेषाश्रवणे उप तिष्ठते । अत्र सङ्खयापरिमाणयोः पृथग्ग्रहणात्सङ्खया न परिमाणम् । तथाच वार्तिकम् । ऊर्द्धमानङ्किलोन्मानम्परिमाणन्तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्खया बाह्या तु सर्वतः॥” इति । तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं गुञ्जामाषनिष्कसुवर्णपलादि ।