पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१८
[छयद्विधि
सिद्धान्तकौमुदीसहिता

१६७६ । ऋषभोपानहोर्ञ्यः। । (५-१-१४)

छस्यापवादः । आर्षभ्यो वत्स औपानह्यो मुञः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन । औपानह्यं चर्म ।

१६७७ । चर्मणोऽञ् । (५-१-१५)

चर्मणो या विकृतिस्तद्वाचकाद्ञ्स्यात् । वध्रर्यै इदं वार्ध्र चर्म । वारत्रं चर्म।

१६७८ । तदस्य तदस्मिन्स्यादिति । (५-१-१६)

प्राकारः आासामिष्टकानां स्यात्प्राकारीयाः इष्टकाः । प्रासादीयं दारु । प्राकारोऽस्मिन्स्यात्प्राकारीयो देशः । इतिशब्दो लौकिकीं विवक्षामनुसारयति । तेनेह न । प्रासादो देवदत्तस्य स्यादिति ।


किंप्रत्ययः । “आतो लोप इटि च' इत्याल्लोपः । उपधिः रथाङ्गमिति ॥ तथा भाष्यादिति भावः । ऋषभोपानहोर्ञ्यः ॥ ऋषभ, उपानह, अनयोः समाहारद्वन्द्वात्पञ्चमी । ऋषभ शब्दादुपानह्शब्दाच्च तादथ्यचतुर्थ्यन्तात् प्रकृतौ वाच्यायां व्यप्रत्ययः स्यादित्यर्थः । आर्षभ्य इति ॥ ऋषभाय अयमिति विग्रहः । ऋषभार्थ इत्यर्थः । यो वत्सः ऋषभावस्थाप्राप्त्यर्थ पोष्यते सः एवमुच्यते । औपानह्यो मुञ्ज इति ॥ उपानहे अयमिति विग्रहः । उपानदर्थो मुञ्ज इत्यर्थः । क्वचिद्देशे मुञ्जतृणैरुपानत् क्रियते । चर्मण्यपीति ॥ चर्मणि प्रकृतित्वेन वाच्येऽपि अयं ञ्य एव ‘चर्मणोऽञ्’ इत्यञं परमपि पूर्वविप्रतिषेधेन बाधित्वा भवतीत्यर्थः । एतच्च ‘उगवादिभ्यः’ इति सूत्रभाष्ये स्थितम् । औपानह्यमिति ॥ उपानदर्थचर्मेत्यर्थः । चर्मणोऽञ् ॥ चर्मणः इति षष्ठयन्तं विकृतावन्वेति । तदाह । चर्मणो या विकृतिः तद्वाचकादिति ॥ तादर्थ्यचतुर्थ्यन्तादिति शेषः । अञ् स्यादिति ॥ प्रकृतौ वाच्याया मिति शेषः । वध्रर्यै इदमिति ॥ वृधेरौणादिके ष्टनि वर्ध्रशब्दः । टित्वात् डीप् वध्रीं चर्मरज्जुः । “नध्री वर्ध्री वरत्रा स्यात्” इत्यमरः । वाध्रर्यै इदमिति पाठान्तरम् । ‘वृधि वपिभ्यां रन्’ इति वृधेः रनि लघूपधगुणे रपरत्वे वर्ध्रशब्दश्चर्मवाचकः, तस्माद्विकारे अणि डीपि वाध्रीं रज्जुः । तद्स्य तदस्मिन् स्यादिति ॥ “तदर्थं विकृतेः प्रकृतौ' इति निवृत्तम्, इति कैयटः । तदस्य स्यादिति, तदस्मिन् स्यादिति चार्थे प्रथमान्ताद्यथाविहितं प्रत्ययः स्यादित्यर्थः । स्यादित्यत्र “सम्भावनेऽलमिति' इति सम्भावने लिङ् । प्राकार आासामिति ॥ करणत्वस्य सम्बन्ध सामान्यविवक्षायां षष्ठी । आभिरिष्टकाभिः प्राकारः कर्तुं शक्यत इति विग्रहवाक्यस्य फलि तोऽर्थः । प्राकारीया इति । प्राकारशब्दात्प्रथमान्तात् छः । इष्टकाः प्रत्ययार्थः । प्राकारपर्याप्ता इष्टका इति यावत् । प्रासादीयं दार्विति ॥ प्रासादोऽस्य स्यादिति विग्रहः । प्रासादपर्याप्तमिति यावत् । प्राकारीयो देश इति ॥ प्रायेण प्राकारोऽस्मिन्देशे सम्भाव्यते इत्यर्थः । देशस्य