पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२६
[आर्हीय
सिद्धान्तकौमुदीसहिता

१७०२ । तेन क्रीतम् । (५-१-३७)

ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् ।नैष्किकम्

१७०३ । इद्गोण्याः । (१-२-५०)

गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः। पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः।

१७०४ । तस्य निमित्तं संयोगोत्पातौ । (५-१-३८)

संयोगः सम्बन्धः । उत्पातः शुभाशुभसूचकः । शतिकः-शत्यो वा धनपतिसंयोगः । शत्यं—शतिकं दक्षिणाक्षिस्पन्दनं शतस्य निमित्तमित्यर्थः । ' वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसङ्खयानम्’ (वा ३०३३) । वातस्य


'खार्या-’ इति ईकन्, “पणपाद' इति यत्, “द्वित्रि' इति वार्तिकोक्ताण्, इत्येवं त्रयोदशे त्यर्थः । प्रकृता इति । प्रकृतान्ता इत्यर्थः । समर्थविभक्तय इति ॥ “समर्थानां प्रथमाद्वा' इति सूत्रलभ्यसमर्थविशेषणीभूतप्रथमोच्चारिततत्तद्विभक्तय इत्यर्थः । तेन क्रीतम् ॥ अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । ठञिति । उदाह्रियते इति शेषः । गोपुच्छेन क्रीतं गौपुच्छिकमिति ॥ 'अगोपुच्छ' इति पर्युदासाट्ठगभावे औत्सर्गिक ष्ठमिति भावः । साप्ततिकमिति ॥ सप्तत्या क्रीतमित्यर्थः । अगोपुच्छसङ्खया, इति पर्युदासा ट्ठगभावे ठमिति भावः । प्रास्थिकमिति । प्रस्थेन क्रीतमित्यर्थः । “अगोपुच्छसङ्खयापरि माणात् इति पर्युदासाट्ठगभावे ठञिति भावः । ठगिति । उदाह्रियते इति शेषः । नैष्किक मिति ॥ निष्केण क्रीतमित्यर्थ : । * असमासे निष्कादिभ्यः’ इति ठगिति भावः । इद्गोण्याः ॥ लुकोऽपवाद् इति ॥ 'लुक्तद्धितलुकि' इति प्राप्तस्येत्यर्थः । पञ्चगोणिरिति ॥ आर्ही यस्य ठको लुकि स्रीप्रत्ययस्य इकारः । नव उपसर्जनह्रस्वत्वेनैव इदं सिद्धमिति वाच्यम् । इत्त्वविध्यभावे 'लुक्तद्धितलुकि' इति ङीषो निवृत्तावदन्तत्वात् टापि पञ्चगोणेत्यापत्तेः । मूल द्रव्यवाचिन एव तृतीयान्तादेव क्रीतार्थे प्रत्यया भवन्ति, नतु देवदत्तेन क्रीतमित्यर्थे । अन भिधानादिति भाष्ये स्पष्टम् । तस्य निमित्तम् । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे यथाविहितं षष्ठयन्तात् ठञादयः स्युरित्यर्थः । शत्यः शतिको वेति ॥ शतस्य निमित्त मित्यर्थः । ‘शताच्च' इति यट्ठनौ । धनपतिसंयोग इति ॥ याजनशुश्रूषादिसम्पर्क इत्यर्थः । उत्पाते उदाहरति । शत्यं शतिकं वा दक्षिणाक्षिस्पन्दनमिति । शतस्य निमित्त मित्यर्थः । सूचकत्वमेवात्र निमित्तत्वमिति भावः । उपसङ्खयानमिति ॥ आर्हीयस्य ठक इति शेषः । कोपनं वृद्धिः । सन्निपाताञ्चेति ॥ ‘तस्य निमित्तं संयोगोत्पातौ' इत्यर्थे ठगिति