पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८१३
बालमनोरमा ।

१६५९ । समानोदरे शयित ओ चोदात्तः । (४-४-१०८ )

समाने उदरे शयित: स्थितः समानोदर्यो भ्राता ।

१६६० । सोदराद्यः । (४-४-१०९)

सोदर्यः । अर्थ: प्राग्वत् ।

इति तद्धिते चतुर्थस्य चतुर्थपादे प्राग्घितीयप्रकरणम् ।

अथ तद्विते पञ्चमस्य प्रथमपादे आहीर्ये छयद्विधिप्रकरणम्।

१६६१ । प्राक् क्रीताच्छः । (५-१-१)

'तेन क्रीतम्’ (सू १७०२) इत्यतः प्राक्छोऽधिक्रियते ।

१६६२ । उगवादिभ्यो यत् । (५-१-२)

प्राक् क्रीतादित्येव । उवर्णान्ताद्भवादिभ्यश्च यत्स्याच्छस्यापवादः । 'नाभि नभं च' (ग सू ९५) । नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् ।


समानोदरे शयितः ॥ समानोदरशब्दात् सप्तम्यन्तात् शयितः इत्यर्थे यत्स्यात् ओकारश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं स्थित इति । कुशेशयं जलेशयं इत्यादौ तथा दर्शनादिति भावः । समानोदर्य इति ॥ समानमुदरमिति विग्रहे “पूर्वापरप्रथम' इत्यादिना समासाद्यति कृते तित्स्वरापवादः ओकारस्योदात्तः। ‘विभाषोदरे’ इति सभावे असति रूपम् । सोदराद्यः ॥ सप्तम्यन्तात् शयित इत्यर्थे इति शेषः । तित्वाभावात्प्रत्ययस्वरणान्तोदात्तोऽयम् । विभाषोदरे इति सभावः । “अपन्थानन्तु गच्छन्तं सोदरोऽपि विमुञ्चति” इत्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीहौ 'वोपसर्जनस्य' इति सभावो बोध्यः । एवं 'यत्र भ्राता सहोदरः’ इत्याद्यपि सिद्धम् ॥ इति तद्धिते चतुर्थस्य चतुर्थः पादः । अथ पञ्चमाध्यायः–प्राक्क्रीताच्छः ॥ क्रीतशब्दस्तद्धटितसूत्रपरः । तदाह । तेन क्रीतमिति ॥ 'तेन क्रीतम्' इत्यतः प्राक् येषु सूत्रेषु अर्था एव निर्देक्ष्यन्ते नतु प्रत्ययाः तेषु छ इत्युपस्थितं भवतीति यावत् । उगवादिभ्यो यत् ॥ उश्च गवादयश्च इति द्वन्द्वात् पञ्चमी । उवर्णान्तादिति ॥ प्रातिपदिकविशेषणत्वात् तदन्तविधिः । 'उगिद्वर्णग्रहणवर्जम्’ इत्युक्ते. प्रत्ययविधावपि तदन्तविधिरिति भावः । इदमपि सूत्रं प्राक्क्रीताद्वक्ष्यमाणसूत्रेषु प्रत्यय विशेषानुपादाने उपतिष्ठते । नाभि नभञ्चेति ॥ गवादिगणसूत्रम् । नाभिशब्दः नभादेशं यत्प्रत्ययञ्च प्राप्नोतीत्यर्थः । नभ्योऽक्ष इति ॥ यत्र अक्षदण्डः प्रवेश्यते तचक्रमध्यगतच्छिद्रं