पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१४
[आर्हीय
सिद्धान्तकौमुदीसहिता

'शुनः सम्प्रसारणं वा च दीर्घत्वम्’ (ग सू ९६) । शून्यम्-शुन्यम् । “ऊधसोऽनङ् च' (ग सू ९७) । ऊधन्यः ।

१६६३ । कम्बळाच संज्ञायाम् । (५-१-३)

यत्स्यात्। कम्बळ्यमूणोपलशतम्।' संज्ञायाम्’ । कम्बळीया ऊर्णा

१६६४ । विभाषा हविरपूपादिभ्यः । (५-४-४)

आमिक्ष्यं दधि, आमिक्षीयम् । पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः । अपूप्यम्-अपूपीयम् ।

१६६५ । तस्मै हितम् । (५-१-५)

वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् ।

१६६६ । शरीरावयवाद्यत् । (५-४-४)


नाभिरित्युच्यते । तस्मै हितः अक्षदण्डः, स हि अनुगुणत्वात् नाभये हितः । नभ्यमञ्जनमिति अञ्जनं तैलसेकः । नाभेरञ्जने कृते तत्र प्रोतञ्चक्र सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्य क्षमताधायकत्वादञ्जनं नाभये हितम् । अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्यते । भाष्ये रथनाभेरेव ग्रह्णादित्यभिप्रेत्य आह ! रथनाभावेदमिति ॥ शरीरावयवविशेषवा चिनाभिशब्दातु “शरीरावयवाद्यत्’ इति वक्ष्यमाणः केवलो यत्, नतु नभादेश इति भावः । शुनः सम्प्रसारणमिति । गवादिगणसूत्रम् । ‘श्वन्शब्दाद्यत्स्यात्प्रकृतेः सम्प्रसारणम्, तस् सम्प्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः । शून्यम्-शुन्यमिति ॥ शुन हितमित्यर्थः । ऊधसोऽनङ्वेति ॥ इदमपि गणसूत्रम् । ऊधश्शब्दात् यत्स्यात् प्रकृतेरनडादेशश्वेत्यर्थः । आदेशे डकार इत्, नकारादकार उच्चारणार्थः, डित्वादन्तादेशः । कम्बळाञ्च ॥ कम्बळ शब्दात् यत्स्यात् प्राक्क्रीतीयेष्वर्थेषु संज्ञायामित्यर्थः । कम्बळ्यम् ऊर्णापलशतमिति ॥ कम्बळाय हितमित्यर्थः । विभाषा हविः ॥ हविर्विशेषवाचिभ्यः अपूपादिभ्यश्च प्राक्क्रीती येष्वर्थेषु यद्वा स्यादित्यर्थः । पक्षे छः । आमिक्ष्यं दधीति ॥ आमिक्षायै हितमित्यर्थः । तप्ते पयसि दध्रि निक्षिप्ते सति यत् घनीभूतं निष्पद्यते सा आमिक्षेत्युच्यते । तस्मै हितम् ॥ अस्मिन्नर्थे चतुर्थ्यन्ताद्यथाविहितं प्रत्ययाः स्युः । वत्सीय इति ॥ छ रूपम् । या गोधुक् वत्सेभ्यः पयः शिष्टा दोग्धि स एवमुच्यते । शङ्कव्यमिति । शङ्कवे हितमित्यर्थः । उवर्णान्तत्वाद्यत् । गव्यमिति । गोभ्यो हितं तृणादिकमित्यर्थः । गवादिलक्षणो यत् । हविष्यमिति ॥ हविषे हितमित्यर्थः । हविःशब्दो गवादिः । “विभाषा हविः’ इत्यत्र तु हवि र्विशेषवाचिनामेव ग्रहणं, व्याख्यानात् । शरीरावयवाद्यत् । शरीरावयवविशेषवाचकात्