प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीन: ।
१६५२ । भक्ताण्णः । (४-४-१००)
भक्ते साधवो भाक्ताः शालयः ।
१६५३ । परिषदो ण्यः (४-४-१०१)
पारिषद्यः. । “ परिषद्ः' इति योगविभागाण्णोऽपि । पारिषदः । ['पर्षदः' इति पाठान्तरम् । पार्षदः ।]
१६५४ । कथादिभ्यष्ठक् । (४-४-१०२)
कथायां साधुः काथिकः ।
१६५५ । गुडादिभ्यष्ठञ् । (४-४-१०३)
गुडे साधुर्गौडिक इक्षुः । साक्तुको यवः ।
१६५६ । पथ्यतिथिवसतिस्वपतेर्ढञ् । (४-४-१०४)
पथि साधु पाथेयम् । आतिथेयम् । वसनं वसतिः, तत्र साधुर्वासतेयी रात्रिः। स्वापतेयं धनम्।
१६५७ । सभाया यः । (४-४-१०५)
सभ्यः ।
१६५८ । समानतीर्थे वासी । (४-४-१०७)
'साधुः' इति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसती तीति सतीर्थ्यः ।
सप्तम्यन्तेभ्यः एभ्यः साधुरित्यर्थे खञ् स्यादित्यर्थः । प्रातिजनीन इति ॥ प्रतिजनमिति वीप्सायामव्ययीभावः। तत्र साधुरित्यर्थः । एवं वैश्वजनीनः । भक्ताण्णः ॥ सप्तम्यन्तादस्मात् साधुरित्यर्थे इति शेषः। परिषदो ण्यः ॥ सप्तम्यन्तात्साधुरित्यर्थे इति शेषः। योगेति ॥ परिषद इति प्रथमो योगः। परिषदः णः स्यादित्यर्थः। ततः ‘ण्यः' इति द्वितीयो योगः । परिषदो ण्यः स्यादित्यर्थः। कथादिभ्यष्टक् ॥ इत्यादि स्पष्टम् । गुडादिभ्यष्ठञ् ॥ साक्तुको यव इति ॥ सक्तुषु साधुरित्यर्थः । कथादित्वाद्वक् । उगन्तत्वाट्ठस्य कः । पथ्य- तिथि ॥ इत्यादि स्पष्टम् । समानतीर्थे वासी ॥ समानतीर्थशब्दात्सप्तम्यन्तात् वसतीत्यर्थे यत्स्यादित्यर्थः । वसतीति वासीति ॥ ग्रहादेराकृतिगणत्वाणिनिः । तीर्थशब्दस्य विवरणं गुराविति । सतीर्थ्य इति ॥ समानतीर्थशब्दाद्यति 'तीर्थे ये' इति समानस्य सभावः । १. 'स पार्षदैरम्बरमापुपूरे' इति जाम्बवतीजये पाणिनिः-इति मुकुटः।