पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८११
बालमनोरमा ।

१६४५ । छन्दसो निर्मिते । (४-४-९३)

छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ।

१६४६ । उरसोऽण् च । (४-४-९४)

चाद्यत् । उरसा निर्मितः पुत्रः औरसः—उरस्यः ।

१६४७ । हृदयस्य प्रियः । (४-४-९५)

हृद्यो देशः । “हृदयस्य ह्रल्लेख–' (सू ९८८) इति हृदादेशः ।

१६४८ । बन्धने चर्षौं । (४-४-९६)

हृदयशब्दात्षष्टयन्ताद्वन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं हृद्यो वशीकरणमन्त्र: ।

१६४९ । मतजनहलात्करणजल्पकर्षेषु । (४-४-९७)

मतं ज्ञानं, तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हृलस्य कर्षो हल्यः ।

१६५० । तत्र साधुः । (४-४-९८)

अग्रे साधुः अग्रयः । सामसु साधुः सामन्यः । *ये चाभावकर्मणोः (सू ११५४) इति प्रकृतिभावः । कर्मण्यः । शरण्यः ।

१६५१ । प्रतिजनादिभ्यः खञ् । (४-४-९९)


लभ्यते । धर्मादनपेतामिति ॥ अप्रच्युतमित्यर्थः । पथ्यमिति ॥ पथः अनपेतमित्यर्थः । न्याय्यमिनि ॥ न्यायादनपेतमित्यर्थः । छन्दसो निर्मिते ॥ छन्दश्शब्दात्तृतीयान्तात् निर्मितेऽर्थे यदित्यर्थः । इच्छयेति ॥ छन्दःशब्दः इच्छावाचीति भावः । “छन्दः पद्येऽभि लाषे च' इत्यमरः । उरसोऽण् च ॥ तृतीयान्तान्निर्मित इत्यर्थे इति शेपः । उरस्यः इति ॥ “अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ” इति श्रुतेरिति भावः । पुत्त्र इति संज्ञाधि काराल्लब्धम् । हृदयस्य प्रियः ॥ षष्ठयन्तान् हृदयशब्दात् प्रिय इत्यर्थे यत्स्यादित्यर्थः । बन्धने चर्षौ ॥ मतजनहलात् ॥ यथासङ्खयम् एभ्यः एष्वर्थेषु यदिति शेषः । मतं ज्ञान मिति ॥ मनधातोः भावे त्क्त इति भावः । करणं भावः साधनं वेति । कृञ्धातोर्भावे करणे वा ल्युटि करणशब्दः । तेन जननक्रिया वा जननसाधनं वा विवक्षितमित्यर्थः । मत्य मिति ॥ ज्ञानस्य जननक्रिया जननसाधनं वेत्यर्थः । तत्र साधुः ॥ सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः । अग्रय इति ॥ अग्रे साधुरित्यर्थ । साधुरत्र प्रवीणो गृह्यते, नतु हितः । तत्र ‘तस्मै हितम्’ इति वक्ष्यमाणत्वात् । प्रतिजनादिभ्यः खञ् ॥ तत्र साधुरित्येव ।