पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१०
[प्राग्घितीय
सिद्धान्तकौमुदीसहिता

१६४१ । संज्ञायां धेनुष्या । (४-४-८९)

धेनुशब्दस्य पुगागमो यप्रत्ययश्च स्वार्थे निपात्यते, संज्ञायाम् । धेनुष्या बन्धके स्थिता ।

१६४२ । गृहपतिना संयुक्ते ञ्यः । (४-४-९०)

गृहपतिर्यजमानः, तेन संयुक्तो गार्हपत्योऽग्निः ।

१६४३ । नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्य

प्राप्यवध्यानाम्यसमसमितसंमितेषु । (४-४-९१)

नावा तार्यं नाव्यम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेनानाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया समितं सीत्यं क्षेत्रम् । तुलया सम्मितं तुल्यम् ।

१६४४ । धर्मपथ्यर्थन्यायादनपेते । (४-४-९२)

धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ।


संज्ञायां धेनुष्या ॥ यप्रत्ययश्चेति ॥ यति तु तित्स्वरः स्यादिति भावः । धेनुष्येति । या धेनुर्दोहनार्थमुत्तमर्णाय अधर्मणेन दयते तस्या इयं संज्ञा । तदाह । बन्धके स्थितेति । अमरवाक्यमिदम् । संज्ञायामित्यापादपरिसमाप्तेरधिकारः । सज्ञा हि रूढिर्विवक्षिता । गृह पतिना ॥ अस्मिन्नर्थे गृहपतिशब्दान् तृनीयान्तात् ञ्यः स्यादित्यर्थ । गार्हपत्योऽग्नि रिति ॥ अग्निविशेष इत्यर्थः । तत्र पत्त्नीसंयाजेषु अग्निहोत्रे च गृहपतिदेवताकहोमस्य क्रिय माणत्वात् गृहपतियोगः । यद्यपि देवसूहविःघु “अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति” इति हविर्होम आहवनीये क्रियते । तथापि संज्ञाधिकारादाहवनीये नास्य प्रयोगः । नौवयोधर्म ॥ नौ, वयस्, धर्म, विष, मूल, मूल, सीता, तुला, एभ्योऽष्टभ्य. क्रमात् तायें, तुल्ये, प्राप्ये, वध्ये आनाभ्ये, समे, सभिते, संमिते, चार्थे यत्स्यादित्यर्थः । तृतीयान्तेभ्यः इत्यर्थात् गम्यते। तार्यादियोगे करणे कर्तरि हेतौ तुल्यादियोगे च तस्या एव सम्भवात् । अत्र मूलशब्दयोर्यथा सङ्खयप्रवृत्तये नैकशेषः । अन्यथा सप्तानाम्प्रकृतीनाम् एकैकस्याष्टस्वप्यर्थेषु प्रत्यय इति भ्रमः स्यात् । तार्यमिति ॥ तरीतुं शक्यमित्यर्थः । 'ऋहलोर्ण्यंत्' । वयसा तुल्य इति ॥ मित्रे एवायम्प्रत्ययो नतु शत्रौ। संज्ञाधिकारात्। मूलेनानाम्यमिति ॥ पटादेरुत्पत्त्यर्थे वणिग्भिर्वेि नियुक्तं द्रव्यं मूलम् । तेन सह यदधिकन्द्रव्यम् आनम्यते विक्रेतुः सम्मतीकरणेन लभ्यते तन्मूल्यमित्यर्थः । लोकास्तु विक्रेतुर्लब्धं सर्वन्द्रव्यं मूल्यमिति व्यवहरन्ति । तत्र लक्षणा बाध्या । सा च साम्प्रतिकी निरूढा वा । सीतयेति ॥ सीता लाङ्गलपद्धतिः । तया समितं सङ्गत्त मित्यर्थः । कृष्टमिति यावत् । तुलयेति ॥ तुला धटा, तया उन्मितमित्यर्थः । धर्मपथ्यर्थ ॥ धर्म, पथिन्, अर्थ, न्याय, एभ्यः अनपेतमित्यर्थे यदित्यर्थः । औचित्यात्पञ्चम्यन्तेभ्यः इति