पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८०९
बालमनोरमा ।

द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यात्, न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्करा: ।

१६३६ । धनगणं लब्धा । (४-४-८४)

तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः ।

१६३७ । अन्नाण्णः । (४-४-८५)

अन्नम् लब्धा आन्नः

१६३८ । वशं गतः । (४-४-८६)

वश्यः परेच्छानुसारी ।

१६३९ । पदमस्मिन्दृश्यम् । (४-४-८७)

पद्यः कर्दमः । नातिशुष्क इत्यर्थः ।

१६४० । मूलमस्याबर्हि । (४-४-८८)

आबर्हणमाबर्हः उत्पाटनं, तदस्यास्तीत्याबर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गाः: ।


अयं विकल्पते, इत्युक्तत्वात् द्वितीयान्ताद्विष्यतीत्यर्थे यत्स्याद्धनुषः करणस्याभावे सतीत्यर्थः । नचेत्तत्रेति । तत्र वेधने धनुः करणं नचेदित्यर्थः । पद्या इति । पादशब्दाद्यति पद्यत्यतदर्थे' इति पद्भावः । अधनुषेति किम् । धनुषा चोरं विध्यति देवदत्तः । अत्र चोराद्यत् न भवति । न चासामर्थ्यादेवात्र यन्नेति वाच्यम् । विध्द्यतीत्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामर्थ्याविघातात् । अन्यथा औपगवो देवदत्तः उपगुनप्तृत्वात् इत्यादौ न स्यात् । प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषनित्यसापेक्षत्वाच्च इति *शब्देन्दुशेखरे विस्तरः । धनगणं लब्धा ॥ धनशब्दात् गणशब्दाञ्च द्वितीयान्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः । ननु लब्धृशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत आह । तृन्नन्तमेतदिति । तथाच

  • न लोक' इति निषेधान्न षष्ठीति भावः । अन्नाण्णः ॥ लब्धेत्यर्थे द्वितीयान्तादिति शेषः ।

वशङ्गतः ॥ वशशब्दात् द्वितीयान्ताद्भत इत्यर्थे यदित्यर्थः । वश्य इति । वशङ्गत इति विग्रहः । ‘वश कान्तौ' । कान्तिरिच्छा । वशनं वशः । ‘वशिरण्योरुपसङ्खयानम्’ इत्यप् । वशं इछाङ्गतः प्राप्तः, इछाधीन इत्यर्थः । वशधातुः छान्दसः' इति लुग्विकरणे वक्ष्यते । तत्प्रायिक मिति भावः । सर्वस्यापि स्वेच्छानुसारित्वादाह। परेच्छानुसारीति । पदमस्मिन्दृश्यम्। प्रथमान्तात्पदशब्दात् दृश्यत इत्यर्थे यदित्यर्थः । अत्र तदिति द्वितीयान्तमनुवृत्तम्प्रथमया विपरिणम्यते । मूलमस्याबर्हि ॥ आाबर्हणमिति ॥ उत्पाटनमित्यर्थः । उपसर्गवशात् वृहू उद्यमने' इति धातोरुत्पाटने वृत्तिः। मूल्या मुद्रा इति ॥ मूलतः उत्पाटनीया इत्यर्थः ।

  • “करणमात्रोपलक्षणं धनुरिति, तेन चोर विध्यति खङ्गेनेनत्यादावपि न । न च तत्रासामर्थ्यम् ।

प्रधानस्य सापेक्षत्वेनादोषात् । प्रत्ययार्थैकदेशव्यधनस्य तदशे नित्यसापेक्षत्वाच्च। चोरं विध्यती त्यादौ त्वनभिधानाद्वारणीयः सत्यनिष्टत्वे ।” इति शब्देन्दुशेखरे । P 102