पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८०३
बालमनोरमा ।

१६०४ । शलालुनोऽन्यतरस्याम् । (४-४-५४)

ष्ठन् स्यात् , पक्षे ठक् । शलालुकः-शलालुकी। शालालुकः-शालालुकी। शलालुः सुगन्धिद्रव्यविशेषः ।

१६०५ । शिल्पम् । (४-४-५५)

मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ।

१६०६ । मड्डुकझर्झरादणन्यतरस्याम् । (४-४-५६)

मड्डुकवादनं शिल्पमस्य माड्डुकः-माड्डुकिकः । झार्झरः-झार्झरिकः।

१६०७ । प्रहरणम् । (४-४-५७)

'तदस्य' इत्येव । असि: प्रहरणमस्य आसिकः । धानुष्कः ।

१६०८ । परश्वथाट्ठञ्च । (४-४-५८)

पारश्वथिक: ।

१६०९ । शक्तियष्टयोरीकक् । (४-४-५९)

शाक्तीकः । याष्टीक: ।

१६१० । अस्ति नास्ति दृिष्टं मतिः । (४-४-६०)

' तदस्य' इत्येव । अस्ति परलोकः इत्येवं मतिर्यस्य सः आस्तिकः । नास्तीति मतिर्यस्य स नास्तिक । दिष्टमिति मतिर्यस्य स दैष्टिकः ।


तदस्य पण्यमित्येव । ष्ठन्निति च्छेदः। तदाह । पित्वान्ङीषिति ॥ शलालुनोऽन्यतरस्याम्। ष्ठन्निति शेषः । तदस्य पण्यमित्येव । शलालुक इति ॥ शलालु पण्यमस्येति विग्रहः । उकः परत्वाट्ठस्य कः । षित्वस्य फलमाह । शलालुकीति ॥ शिल्पम् ॥ तदस्य शिल्पमित्यर्थे प्रथमान्तात् ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु मार्दङ्गिकः इत्युदाहरणं वक्ष्यति । तत्र मृदङ्गं शिल्पमिति कथं विग्रहः । मृदङ्गस्य शिल्पत्वासम्भवात् । तत्राह । मृदङ्गवादनमिति ॥ मृदङ्गवादनविषयकमित्यर्थः । मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः । मड्डुक झर्झरात् । तदस्य शिल्पमित्येव । पक्षे ठक् । मडडुकझर्झरौ वाद्यविशेषौ । प्रहरणम् ॥ अस्येत्येव । प्रहरणवाचिनः प्रथमान्तादस्येत्यर्थे ठगि यर्थः । प्रह्रियतेऽनेनेति प्रहरणम्, आयुधम् । धानुष्क इति । धनुः प्रहरणमस्येति विग्रहः । उसन्तात्परत्वाट्ठस्य कः। 'इणः षः' इति षः । परश्वथाट्ठञ् च । तदस्य प्रहरणमित्येव । चात् ठक् । “परशुश्च परश्वथः” इत्यमरः । शक्तियष्टयोरीकक् । शक्तियष्टिशब्दाभ्याम्प्रथमान्ताभ्याम्प्रहरणवाचिभ्यामस्येत्यर्थे ईकक् स्या दित्यर्थः । अस्ति नास्ति । तदस्येत्येवेति । अस्तीति मतिरस्यास्ति, नास्तीति मतिरस्या स्तीति, दिष्टमिति मतिरस्यास्तीत्यर्थेपु क्रमेण अस्तीत्यस्मात् नास्तीत्यस्मात् दिष्टमित्यस्माच्च प्रथमान्ताट्ठगित्यर्थः । अस्तिनास्तिशब्दौ निपातौ । यद्वा वचनादेव आख्यातात्प्रत्ययः ।