पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०२
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१५९७ । तस्य धर्म्यम् । (४-४-४७)

आपणस्य धर्म्यमापणिकम्

१५९८ । अण् महिष्यादिभ्यः । (४-४-४८)

महिष्या धर्म्य माहिषम् । याजमानम् ।

१५९९ । ऋडतोऽञ् । (४-४-४९)

यातुर्धर्म्यं यात्रम् । नराच्चेति वक्तव्यम्’ (वा २९६७) । नरस्य धर्म्या नारी । “विशासितुरिड्लोपश्चाञ्च वक्तव्यः' (वा २९६८) । विशासितु र्धर्म्य वैशस्रम् । 'विभाजयितुर्णिलोपश्चाञ्च वाच्यः' (वा २९६९) । विभा जयितुर्धर्म्यं वैभाजित्रम् ।

१६०० । अवक्रयः । (४-४-५०)

षष्ठयन्ताट्ठक्स्यादवक्रयेऽर्थे । आपणस्यावक्रयः आपणिक: । राजग्राह्यं द्रव्यमवक्रयः ।

१६०१ । तदस्य पण्यम् । (४-४-५१)

अपूपाः पण्यमस्य आपूपिकः।

१६०२ । लवणाट्ठञ् । (४-४-५२)

लावणिक: ।

१६०३ । किसरादिभ्यः ष्ठन् । (४-४-५३)

किसरं पण्यमस्य किसरिकः । षित्वान्डीष् । किसरिकी । किसर, उशीर, नलद, इत्यादिकिसराद्यः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ।


पश्यति, नतु कार्ये प्रवर्तते इत्यर्थः । “लालाटिकः प्रभोर्भावदशी कार्याक्षमश्च यः” इत्यमरः । कौक्कुटिक इति ॥ कुक्कुटपतनार्हदेशम्पश्यतीत्यर्थः । तस्य धर्म्यम् ॥ धर्मादनपेतं धर्म्यम् । आचरितुं योग्यमित्यर्थः । धर्म्यमित्यर्थे षष्ठयन्ताट्ठगित्यर्थः । अण् महिष्यादिभ्यः ॥ षष्ठयन्तेभ्यो धर्म्यमित्यर्थे इति शेषः । ऋतोऽञ् ॥ ऋदन्तात्षष्ठयन्तात् धर्म्यमित्यर्थे अञित्यर्थः ।नारीति ॥ अञन्तत्वात् डीबिति भावः । इड्लोप इति ॥ इटो लोप इत्यर्थः । वैशस्त्र मिति ॥ विशसितृशब्दादञि इटो लोपे ऋकारस्य यणि आदिवृद्धिः । वैभाजित्रमिति ॥ विभाजयितृशब्दादञि णिलोपः । अवक्रयः ॥ तस्येत्यनुवर्तते । तदाह । षष्ठयन्तादिति ॥ तद्स्य पण्यम् । अस्मिन्नर्थे प्रथमान्तात् ठगित्यर्थः । क्रेतव्यं द्रव्यं पण्यम् । लवणाट्ठञ् ॥ तदस्य पण्यमित्येव । लावणिक इति ॥ लवणमस्य पण्यमित्यर्थः। किसरादिभ्यः ष्ठन् ।