पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०४
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१६११ । शीलम् । (४-४-६१)

अपूपभक्षणं शीलमस्य आपूपिकः ।

१६१२ । छत्रादिभ्यो णः । (४-४-६२)

गुरोर्दोषाणामावरणं छत्रम्, तच्छीलमस्य छात्रः ।

१६१३ । कार्मस्ताच्छील्ये । (६-४-१७२)

कार्मः इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धिते' (सू ६७९) इत्येव सिद्धे “ अण्कार्यं ताच्छीलिके णेऽपि' । तेन चौरी तापसी इत्यादि सिद्धम् । “ताच्छील्ये' किम् । कार्मणः ।

१६१४ । कर्माध्ययने वृत्तम् । (४-४-६३)

प्रथमान्तात्षष्ठयर्थे ठक्स्याद्ध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्त स्यार्थः । एकमन्यद्वृत्तमस्य ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोञ्चारणरूपं स्खलितमेकं जातं, सः ।


“दैवन्दिष्टम्' इत्यमरः । शीलम् । अस्येत्यर्थे शीलवाचिनः प्रथमान्तादृगित्यर्थः । शीलं स्वभावः । अपूपभक्षणमिति । अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः । छत्त्रादिभ्यो णः ॥ एभ्यः प्रथमान्तेभ्यः अस्य शीलमित्यर्थे णप्रत्ययः स्यादित्यर्थः । छत्तूं शीलमस्य छात्तः इत्युदाहरणं वक्ष्यति । तत्र छत्तस्य शीलत्वानुपपत्तेः छत्तूपदं गुरुंदोषावरणे गौणमित्याह । गुरोरिति ॥ शीलमित्यर्थे छत्रादित्वात् णप्रत्यये कृते । कार्मस्ताच्छील्ये ॥ तत् शीलं यस्य सः तच्छीलः, तस्य भावः ताच्छील्यम् । तस्मिन्वाच्ये कार्म इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् । तदाह । टिलोपो निपात्यते इति ॥ णेऽपी त्यनन्तरम् इति ज्ञापनार्थमिदमिति शेषः । अत्र टिलोपविधिर्हि “ अन्’ इति प्रकृतिभाव निवृत्त्यर्थः । ततश्च अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादणि कार्यकारित्वं णप्रत्ययस्य ज्ञाप्यते इति भावः । तेनेति ॥ चुरा शीलमस्य, तपः शीलमस्येत्यर्थे चुरातपः शब्दाभ्याञ्छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकायें डीपिचौरी तापसीति सिद्धमित्यर्थः। कार्मण इति । “तस्येदम्' इत्यणि 'कार्मस्ताच्छील्ये' इत्यस्याप्रवृत्त्या * अन्' इति प्रकृति भावान्न टिलोप इति भावः । कर्माध्ययने वृत्तम् ॥ 'तदस्य पण्यम्’ इत्यतः तदस्ये त्यनुवर्तते । ‘तदस्य कर्माध्ययने वृत्तम्' इत्यर्थनिर्देशः । तत्र तदित्यनेन विशेष्येण कर्मवृत्त मित्यन्वेति । कर्मशब्दः क्रियापरः । वृत्तमित्यस्य जातमित्यर्थः । वृत्तं कर्मविशेष्यसमर्पकम् । तदिति प्रथमोचारितम् । ततश्च अख्य अध्ययनविषये तत्कर्म वृत्तमित्यर्थे तच्छब्दगम्यविशेष्य वाचकात् प्रथमान्ताट्ठक् स्यादित्यर्थः । तदाह । प्रथमान्तादिति । वृत्तं कर्म प्रति विशेष्यसमर्पकादिति शेषः । अध्ययने वृत्तेति । विषयसप्तम्येषा । या क्रियेति ॥