पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७८५
बालमनोरमा ।

१५१५ । अवयवे च प्राण्यौषधिवृक्षेभ्यः । (४-३-१३५)

चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्व काण्डं भस्म

१५१६ । बिल्वादिभ्योऽण् । (४-३-१३६)

बैल्वम् ।

१५१७ । कोपधाच्च । (४-३-१३७)

अण् । अञ्जोऽपवादः । तर्क, तार्कवम् । तैत्तिडीकम्

१५१८ । त्रपुजतुनोः षुक् । (४-३-१३८)

आभ्यामण् स्याद्विकारे, एतयोः घुगागमश्च । त्रापुषम् । जातुषम्

१५१९ । ओरञ् । (४-३-१३९)

दैवदारवम् । भाद्रदारवम्


मनिन्प्रत्ययान्तं नित्स्वरेणाद्युदात्त म् । मृत्तिकाशब्दोऽपि 'मृदस्तिकन्' इति तिकन्नन्त नित्स्वरेणाद्युदात्तः । अवयवे च प्राण्यौषधि प्राणिवाचिनः औषधिवाविनो वृक्षवाचि नश्च षष्ठयन्तेभ्यः अवयवे विकारे च अणादयः साधारणा उक्ताः वक्ष्यमाणाश्च प्रत्ययाः यथाविहितं स्युः । अन्येभ्यस्तु विकारमात्र इत्यर्थः । प्राणिन उदाहरति । मायूर इति ॥ 'लघावन्ते' इति मयूरशब्दो मध्योदात्त षधेरुदाहरति । मौर्वः मिति ॥ मूर्वा औषाधविशेषः । तस्या अवयवो विकारो वेत्यर्थः । औत्सर्गिकोऽणु । 'अनुदात्ता देश्च' इत्यञ् तु वक्ष्यमाणेो न भवति हरति । पैप्पलमिति ॥ पिप्पलः अश्वत्थः, तस्यावयवो विकारो वेत्यर्थः । 'लघावन्ते' इति मछद्योदात्तः पिप्पलशब्दः । “ अनुदात्तादेश्च' इति वक्ष्यमाणाओऽभावे औत्सर्गिकोऽम् । बिल्वा दिभ्योऽण् ॥ एषु प्राण्यौषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे अण् स्यादित्यर्थ बैल्वमिति ॥ बिल्वस्यावयवो विकारो वेत्यर्थः । बिल्व, व्रीहि, काण्ड, मुद्र, मसूर, गोधूम, इक्षु, वेणु, गवेधुक, कार्पसी, पाटली, कर्कन्धू, कटीर, इति बिल्वादयः । तत्र गवेधुकस्य

  • कोपधाञ्च' इत्यणि सिद्धे मयटो बाधनार्थमिह पाठः इतरेषान्तु 'अनुदात्तादेश्व्' इत्यव्यो

बाधनार्थमिति कौस्तुभे विस्तरः । कोपधाञ्च ॥ आणिति शेषः । तत्र प्राण्यौषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव । तर्कुं, तार्कवमिति तर्कुं इति प्रकृतिनिर्देशः । तर्कः नम वृक्षविशेषः । तस्यावयवो विकारो वेत्यर्थे ओरञ्' इत्यस्यापवादः अण् । तित्तिडीक शब्दो 'लघावन्ते' इति मछोदात्त अनुदात्तादश्व इयाऽपवादः अण् । त्रपुजतुनो षुक् ॥ त्रापुषम् । जातुषमिति ॥ त्रपुणो जतुनश्च विकार इत्यर्थः । ओरञ् ॥ उवर्णादञ् स्यादित्यर्थः। प्राण्यौषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे । दैवदारवम् भाद्रदारवमिति॥ देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः। 'पीतद्रवार्थानाम्' 99