१५१३ । आथर्वणिकस्येकलोपश्च । (४-३-१३३)
अण्स्यात् । आथर्वणिकस्यायमाथर्वणो धर्म आम्रायो वा । चरणाद्रुञ्जो ऽपवादः ।
इति तद्धिते शैषिकप्रकरणम् ।
अथ तद्विते प्राग्दीव्यतीयप्रकरणम् ।
१५१४ । तस्य विकारः । (४-३-१३४)
'अश्मनो विकारे टिलोपो वक्तव्यः' (वा ४१८५) । अश्मनो विकारः आश्मः भास्मनः। मार्त्तिकः।
न भवति । हस्तिपादस्यापत्यं हास्तिपादः । अत इञम्बाधित्वा अत एव निपातनादण् । हस्तिपाद स्यायमित्यर्थे अनेन आणिति भावः । गोत्रबुञोऽपवादः । आथर्वणिकस्येकलोपश्च ॥ इदं सूत्रमिति कैयटः । वार्तिकमित्यन्ये । अण् स्यादिति ॥ आथर्वणिकशब्दात्तस्येदमित्यर्थे अणु स्यात् । प्रकृतेरिकस्य लोपश्चेत्यर्थः । आथर्वणिकस्येति ॥ अथर्वणा प्रोक्तो वेदः अथर्वेत्युप चर्यते, तमधीते आथर्वणिकः । वसन्तादित्वाट्टक् । आथर्वणिकस्यायमित्यर्थे अनेन आणि इको लोपे 'दाण्डिनायन' इति टिलोपाभावे आथर्वण इति रूपमित्यर्थः । धर्म आस्रायो वेति ॥ “चरणाद्धर्मान्नाययोरित्युक्तः” इति भावः । ननु तस्यदमित्येव सिद्धे अणुविधिव्र्यर्थ इत्यत आह । चरणादुञोऽपवाद इति ॥ आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः । इति तद्धिते शैषिकप्रकरणम् । अथ विकारार्थप्रत्यया निरूप्यन्ते—तस्य विकारः ॥ विक्रियते इति विकारः, कर्मणि घञ् । प्रकृतेरवस्थान्तरात्मकां विक्रियां प्राप्त इत्यर्थः । विवकार इत्यर्थे षष्ठयन्तादणादयः साधारणाव वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरित्यर्थः । अश्मनो विकार इति ॥ विकारार्थकप्रत्यये परे अश्मन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः । अनिति प्रकृतिभावापवादः । आाश्म इति ॥ अणि टिलोपे रूपम् । एवञ्चर्मणो विकारः चार्मः कोशः । 'चर्मणः कोशे' इत्युपसङ्खयानाष्टिलोपः भास्मन इति ॥ भस्मनो विकार इत्यर्थः । आणि अनिति प्रकृतिभावान्न टिलोपः । मार्तिक इति ॥ मृत्तिकाया विकार इत्यर्थः । अत्र 'प्राणिरजतादिभ्योऽञ्, ओरञ्, अनुदात्तादेश्च इत्यादिवक्ष्यमाणापवादविषयभिन्नमुदाहरणम् । तत्र अश्मन्, भरस्मन्, चर्मन्, इति त्रयं इदं सूत्रमिति कैयटः । ‘इदमपि वार्तिकमेवेति हरदत्तः' इति विवरणे नागेशः । युक्त्ं च वार्तिकत्वमेव । सूत्रत्वे चकारेण वार्तिकस्थस्याणः सङ्गहस्य क्लिष्टत्वात् ।