पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

साधारणप्रत्ययाः] बालमनोरमा । ६६५ याम्यः। 'पृथिव्या ञञौ' (वा २५५४) । पार्थिवा-पार्थिवी । 'देवाद्य- ञञौ' (वा २५५५) । दैव्यम्-दैवम् । 'बहिषष्टिलोपो यञ्च' (वा २५५६)। ब्राह्यः । 'ईकक्च' (वा २५५७) । बाहीकः । 'स्थाम्नोऽकार:' (वा २५५९)। अश्वत्थामः । पृषोदरादित्वात्सस्य तः । 'भवार्थे तु लुग्वाच्यः' (वा २८८२) । अश्वत्थामा । 'लोम्नोऽपत्येषु बहुष्वकार:' (वा २५६०)। बाह्वादीञोऽपवादः। इति लोपे 'यणो मयः' इति पूर्वयकारस्य द्वित्वे सति 'हलो यमाम्' इत्याद्ययकारस्य लोपे द्वियकारं रूपम् । द्वित्वाभावे लोपे चासति द्वियकारमेव । असति द्वित्वे यकारलोपे च सत्येकयकारं रूपम् । अनपत्यत्वात् 'आपत्यस्य च' इति यलोपो न । अदितेरपत्ये ण्ये आदित्यशब्दात्पुनरपत्ये ण्ये 'आपत्यस्य च' इति यलोपः । प्राजापत्यः इति ॥ पत्युत्तरपदात् प्रजापतिशब्दात् ण्ये आदिवृद्धौ ‘यस्येति च' इति लोपः । दैतेया इति त्वसाध्वेव । साधुत्वश्रद्धाजाड्ये तु पृषोदरादित्वात् समाधेयम् । काशिकायामिति ॥ भाष्ये त्विदं न दृश्यत इति भावः । याम्य इति ॥ यमस्यापत्यादीति विग्रहः । पृथिव्या ञाञाविति ॥ ञश्च, अञ् च वक्तव्यावित्यर्थः । पार्थिवेति ॥ पृथिव्या अपत्यादीति विग्रहः । ञप्रत्यये 'चुटू' इति अकार इत् , आदिवृद्धि', 'यस्येति च' इति लोपः । स्त्रियामदन्तत्वाट्टाप् । पार्थिवीति ॥ अञि 'टिड्ढाणञ्' इति ङीप् , ञप्रत्ययस्यैव विधौ डीप् न स्यात् । अञ एव विधौ टाप् न स्यात् । तस्मादुभयविधिः । एतत्सूचनाय स्त्रीलिङ्गोदाहरणमिति बोध्यम् । देवादिति ॥ देवशब्दात् यञ् अञ् च प्रत्ययौ प्राग्दीव्यतीयेष्वर्थेषु वक्तव्यावित्यर्थः । दैव्यम्-दैवमिति ॥ देवस्यापत्यादीति विग्रहः । यञि अञि च आदिवृद्धौ ‘यस्येति च' इति लोपः। बहिष इति ॥ बहिस् इति सकारान्तमव्ययम् । तस्मात् प्राग्दीव्यतीयेष्वर्थेषु यञि प्रकृतेः टिलोपश्चेति वक्तव्य इत्यर्थः । बाह्य इति ॥ बहिर्भवः इत्यादिविग्रहः । यञि टिलोपे आदिवृद्धिः। अव्ययानां भमात्रे टिलोप इत्यस्यानित्यत्वज्ञापनार्थमिह टिलोपविधानम् । तेन आराद्भवः आरातीयः इत्यादि सिद्ध्यति । ईकक् चेति ॥ बहिष ईकक् च स्यात् प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः । बाहीक इति ॥ बहिष ईककि टिलोपे 'किति च' इत्यादिवृद्धिः । स्थाम्न इति ॥ स्थामन्शब्दात् अकारप्रत्ययः प्राग्दीव्यतीयेष्वर्थेषु वाच्य इत्यर्थः । अणोऽपवादः । अश्वत्थाम इति ॥ अश्वस्येव स्थामा स्थितिर्यस्येति विग्रहः । अश्वत्थाम्नोऽपत्यं जात इत्यादि विग्रहः । प्रत्ययविधित्वेऽपि भाष्ये उदाहरणात् तदन्तविधिः । अश्वत्थाम- न्शब्दादकारप्रत्यये 'नस्तद्धिते' इति टिलोपः । अणि तु आदिवृद्धिः स्यात् । ननु उदः परत्वाभावात्कथमिह सकारस्य थकार इत्यत आह । पृषोदरादित्वादिति ॥ भवार्थे तु लग्वाच्य इति ॥ अकारप्रत्ययस्येति शेषः । लोम्न इति ॥ लोमन्शब्दाद्बहुषु अपत्येषु वाच्येषु अकारप्रत्ययो वक्तव्य इत्यर्थः । बाह्वादीञ इति ॥ बाह्वादित्वप्रयुक्तस्य इञोऽपवाद इत्यर्थः । उडुलोमा इति ॥ उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा, तस्यापत्यमिति विग्रहः । केवलस्य लोम्नः अपत्ययोगासम्भवात्प्रत्ययविधित्वेऽपि तदन्तविधिः । अकारप्रत्यये P84