पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६६
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

उडुलोमाः । उडुलोमान् । “बहुषु' किम् । औडुलोमिः । “सर्वत्र गोरजादि प्रसङ्गे यत्' (वा २५६१)। गव्यम् । “ अजादिप्रसङ्गे' किम् । गोभ्यो हेतुभ्य आगतं गोरूप्यम् । गोमयम् ।

९०७८ । उत्सादिभ्योऽञ् । (४-१-८६)

औत्सः । “ अन्निकलिभ्यां ढग्वक्तव्यः' (वा २६८९) । अग्रेरपत्यादि आग्नेयम्|कालेयम्| इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः| अथापत्याधिकारप्रकरणम् अथापत्याधिकारप्रकरणम्|

१०७९ । स्त्रीपुंसाभ्यां नञ्स्रञ्औौ भवनात् । (४-१-८७)

धान्यानां भवने-' (सू १८०२) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमा न्नञ्स्नञौ स्तः । स्त्रैणः । पौंस्नः । ‘वत्यर्थे न' । 'स्री पुंवञ्च' (सू९३२) इति ज्ञापकात् । स्त्रीवत् । पुंवत् ।


सति ‘नस्तद्धिते' इति टिलोपः । औडुलोमिरिति ॥ उडुलोस्रोऽपत्यमिति विग्रहः । अत्रा पत्यबहृत्वाभावादकारप्रत्ययो न । किन्तु बाह्वादित्वादिञि टिलोप इति भावः । सर्वत्र गोरिति ॥ लोम्रोऽपत्येष्विति पूर्ववार्तिकादपत्यग्रहणानुवृत्तिनिवृत्त्यर्थे सर्वत्रग्रहणम् । अपत्ये तदन्येषु च प्राग्दीव्यतीयेष्वर्थेषु गोशब्दादजादिप्रत्ययप्रसङ्गे सति यत्प्रत्ययो वाच्य इत्यर्थः । गव्यमिति ॥ गविभवङ्गोरागतमित्यादि विग्रहः। अणपवादो यत्। गोरूप्यम्-गोमयमिति ॥ हेतुमनुष्येभ्योऽन्यतरस्याम्' इति रूप्य इत्यर्थः । 'मयड्वैतयो.’ इति रूप्यमयटौ । हलादित्वा त्रैतयोर्यत्प्रत्ययो बाधक इति । उत्सादिभ्योऽञ् ॥ प्राग्दीव्यतीयेष्वर्थेष्विति शेषः । अणि ञाद्यपवादः । 'दृष्टं साम' इति सूत्रभाष्ये 'सर्वत्राग्निकलिभ्याण्ढग्वक्तव्यः’ इति वार्तिकं पठितम् । दृष्टं सामेत्यर्थे ततोऽन्येष्वप्यर्थेषु ढग्वक्तव्य इत्यर्थः । तत्र सर्वत्रेति त्यक्त्वा लाघ वात्प्राग्दीव्यतीयेष्वेवेदं वार्तिकम्पठन्ति । अग्विकलिभ्यामिति ॥ अपत्यादीति ॥ अग्नि र्देवता अस्य इत्यादिसङ्ग्रहः । आग्रेयम् । कालेयमिति ॥ ढकि एयादेशे कित्त्वादादिवृद्धौ 'यस्येति च' इति लोपः ॥-इत्यपत्यादिविकारान्तार्थसाधारणप्रत्ययाः । अथापत्याधिकारो निरूप्यते —स्त्रीपुंसाभ्याम्॥ भवनशब्देनैकदेशेन 'धान्यानाम्भवने क्षेत्रे खञ्’ इति सूत्र विवक्षितम् । प्राग्दीव्यत इत्यतः प्रागिल्यनुवृत्तम् । तदाह । धान्याना मिति ॥ स्त्रीपुंसाभ्यामिति ॥ “अचतुर' इत्यच् । स्त्रीशब्दात् पुंस्शब्दाचेत्यर्थः । स्त्रैण इति ॥ स्त्रिया अपत्यम्, स्त्रीषु, भवः, स्त्रीणां समूहः, इत्यादिविग्रहः। नञ्, वृद्धिः, णत्वम्। पौंस्न इति ॥ पुसोऽपत्यम्, पुंसि भवः, पुंसां समूहः इत्यादि विग्रहः। पुंस्शब्दात् स्रञि 'स्वादिषु' इति