पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६४
[अपत्यादिविकारान्तार्थ
सिद्धान्तकौमुदीसहिता

१०७४ । अश्वपत्यादिभ्यश्च । (४-१-८४)

एभ्योऽण्स्यात्प्राग्दीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्यापवादः ।

१०७५ । तद्धितेष्वचामादेः । (७-२-११७)

ञिति णिति च तद्धिते परेऽचामादेरचो वृद्धिः स्यात् ।

१०७६ । किति च । (७-२-११८)

किति तद्धिते च तथा । अश्वपतेरपत्याद्याश्वपतम् । गाणपतम् । “गाण पत्यो मन्त्रः' इति तु प्रामादिकमेव ।

१०७७ । दित्यदित्यादित्यपत्युत्तरपदानण्ण्यः । (४-१-८५)

दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यादणोऽपवादः । दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः।'यमाच्च' इति काशिकायाम् ।


अश्वपत्यादिभ्यश्च ॥ चकारात् 'प्राग्दीव्यतोऽणु 'इत्यनुकृष्यते । तदाह । एभ्योऽण् स्यात् प्राग्दीव्यतीयेष्वर्थेष्विति ॥ दीव्यतः प्राक् प्राग्दीव्यत् “अपपरिबहिरञ्चवः पञ्चम्या' इत्यव्यथाभाव । ‘झयः’ इति टच् तु न । तस्य पाक्षिकत्वात् । प्राग्दीव्यत: भवाः प्राग्दीव्यतीया । वृद्धाच्छः। “अव्ययात्त्यप्' इति तु न । अव्ययीभावस्याव्ययत्वे ‘लुङ्मुखस्वरोपचाराः प्रयोजनम् इति परिगणनात् । अत एव ‘अव्ययानाम्भमात्रे टिलोपः’ इत्यपि न भवति। ननु 'प्राग्दीव्यतोऽण्' इत्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह । वक्ष्यमाणस्येति ॥ 'दित्यदित्यादित्यपत्युत्तर पदाण्यः' इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः । तद्धिते ष्वचामादेः ॥ 'अचो ञ्णिति' इत्यनुवर्तते । 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति च । अचामिति निर्धारणषष्ठी । तदाह । ञितीति ॥ किति च ॥ तथेति । अचामादेरचो वृद्धिरित्यर्थः । इदं सूत्रम्प्रकृतानुपयुक्तमपि व्याख्यासौकर्याय इहोपन्यस्तम् । अपत्यादीति ॥ आदिना समूहाद्यर्थसङ्ग्रहः । आश्वपतमिति । अश्वपतेतराणि आदिवृद्धौ ‘यस्येति च' इति इकारलोपः। गाणपतमिति ॥ अश्वपल्यादिषु गणपतिशब्दः पठित इति भावः । गाणपत्य इति ॥ गणपतिर्देवता अस्य मन्त्रस्येति विग्रहः । प्रामादिकमेवेति ॥ प्रमादादायातामित्यर्थः । गणपतिक्षेत्रपत्यादीनामश्वपत्यादिगणे पाठस्य वृत्तौ दर्शनादिति भावः । दित्यदित्यादित्य ॥ दित्यादिभ्य इति ॥ दिति, अदिति, आदित्य एतेभ्यः इत्यर्थः । पत्युत्तरपदादिति ॥ पति उत्तरपदं यस्य तस्मादिति विग्रहः । प्राग्दीव्यतीयेष्वर्थेष्विति ॥ प्राग्दीव्यत इत्यनुवृत्तेरिति भावः । अणोऽपवाद् इति ॥ विशेषविहितत्वादिति भावः । दैत्य इति ॥ दितेरपत्यमिति विग्रहः । दितेर्ण्यप्रत्ययः । “चुट्’ इति णकार इत्, आदिवृद्धिः, 'यस्येति च' इति इकारलोपः। अदितेः आदित्यस्य वेति ॥ अपत्यादीति शेषः । आदित्य इति ॥ जाताद्यर्थे आदिवृद्धौ यस्येति च' इति लोपे आदित्य इति रूपम् । आदित्यशब्दात् ण्ये आदिवृद्धौ “यस्येति च '