पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६०
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

वामा । अबला । तनया । 'सामान्ये नपुंसकम्' दृढं भक्तिर्यस्य सः दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढाभक्तिः ।

७३६ । तसिलादिष्वा कृत्वसुचः । (६-३-३५)

तसिलादिष्वाकृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । परिगणनं कर्तव्यम् । अव्याप्त्यतिव्याप्तिपरिहाराय । 'त्रतसौ' (वा ३९१८) । 'तरप्तमपौ' (वा ३९१९) चरट्जातीयरौ ' (वा ३९२०) । ' कल्पब्देशीयरौ' (वा ३९२१) । 'रूपप्पाशपौ' (वा ३९२२) । 'थाल्' (वा ३९२३) । “ तिल्थ्यनौ' (वा ३९२५) । बह्वीषु बहुत्र-बहुत: । दर्शनीयतरा । दर्शनीयतमा ।


भक्तिशब्दस्य प्रियादिषु पाठे दृढा भक्तिर्यस्य सः दृढभक्तिरित्यत्र कथं पुंवत्वमित्यत आह । सामान्ये नपुंसकमिति ॥ आश्रित्येति शेषः । दृढमिति ॥ पदसंस्कारपक्षे सामान्यपरत्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः । ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंसकत्वन्नापैति । लिङ्गविशेषस्याविवक्षितत्वात्, वेदाः प्रमाणमितिवत् । अत्र चार्थे पस्पशाह्निकभाष्ये “शक्यञ्च अनेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' इति प्रयोगो लिङ्गम् । नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह । स्त्रीत्वविवक्षायां त्विति ॥ वाक्यसंस्कारपक्षे विशेष्यानुसारेण स्त्रीत्वप्रतीतेर्नियमादिति भावः । तसिलादिष्वा कृत्वसुचः ॥ 'स्त्रियाः पुंवत्' इत्यनुवर्तते । आकृत्वसुच इत्याङ् अभिविद्यर्थकः । तमभिव्याप्येत्यर्थः । तदाह । तसिलादिष्वाकृत्वसुजन्तेष्विति ॥ “पञ्चम्यास्तसिल्' इत्यारभ्य “सङ्ख्यायाः क्रियाभ्यावृतिगणने 'कृत्वसुच्' इत्येतत्पर्यन्तसूत्रविहितेष्वित्यर्थः । उत्तरपदपरकत्वाभावात् स्त्रियापुंवदित्यप्राप्तौ वचनमिदम् । ननु तिल्थ्यन्शसां कृत्वसुचः परत्रैव पाठात् तसिलादिष्वनन्तर्भावात्तेषु परेषु वृकतिः अजथ्या बहुशः इत्यत्र पुंवत्त्वन्न स्यादित्यव्याप्तिः । “ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति देश्यस्य 'षष्ठया रूप्य च' इति रूप्यस्य च तसिलादिष्वन्तर्भावात् तयो परतः पट्वीदेश्येत्यत्र शुभ्रारूप्येत्यत्र च पुंवत्वं स्यादिति अतिव्याप्तिः त्यत आह । परिगणनमिति ॥ अव्याप्त्यतिव्याप्तीति ॥ इष्टस्थले अप्रवृत्तिरव्याप्तिः । अनिष्टस्थले प्रवृत्तिरतिव्याप्तिः । परिगणनप्रकारमाह । ऋतसावित्यादिना ॥ बह्वीषु, बहुत्रेति ॥ बह्वीष्वित्यर्थे बह्नीशब्दात् 'सप्तम्यास्रल्' इति त्रलेि पुंवत्वे ङीषो निवृत्तौ बहुत्रेति रूपमित्यर्थः । बहुत इति ॥ “पञ्चम्यास्तसिल्’ इति बह्वीशब्दात् तसिल्, पुंवत्वात् ङीषो निवृत्तिरिति भावः । दर्शनीयतरेति ॥ अनयोरियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयाशब्दात् ‘द्विवचनविभज्योपपदे तरप्’ इति तरप् । पुंवत्वे टापो निवृत्तिरिति भावः । दर्शनीयतमेति ॥ आसामियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयशब्दात् 'अतिशायने तमबिष्ठनौ' इति तमप् पुंवत्वे टापो निवृत्तिरिति भावः । ननु पट्वीशब्दात्तरपि तमपि च “पट्वी तरा, पट्वीतमा' इत्यत्रापि