पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
समासप्रकरणम्]
५६१
बालमनोरमा


'घरूप-' (सू ९८५) इति वक्ष्यमाणो ह्रस्वः परत्वात्पुंवद्भावं बाधते । पट्वितरा । पट्वीतमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । दर्शनीयरूपा । दर्शनीयपाशा । बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या । 'शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः' (वा ३९२६) । बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः । “त्वतलोर्गुणवचनस्य' (वा ३९२७) । शुक्लाया भावः शुक्लत्वम् । 'गुणवचनस्य' किम् । कर्त्र्या भावः कर्त्रीत्वम् । ' शरदः कृतार्थता' इत्यादौ तु सामान्ये नपुंसकम् । “भस्याढे


पुंवत्वे ङीषो निवृत्तौ पटुतरा पटुतमेति स्यादित्यत आह । धरूपेति ॥ तथाच ह्रस्वेन पुंवत्वे बाधिते सति ङीषो निवृत्त्यभावे तस्य ह्रस्वे सति पट्वितरा पट्वितमेति रूपमित्यर्थः । पटुचरीति ॥ पट्वीशब्दात् ‘भूतपूर्वे चरट्’ इति पुंवत्वे ङीषो निवृत्तिरिति भावः । पूर्व पट्वीत्यर्थः । पटुजातीयेति ॥ पट्वीशब्दात् 'प्रकारवचने जातीयर्’ इति पुंवत्वे ङीषो निवृत्तिरिति भावः । पटुसदृशीत्यर्थः । दर्शनीयकल्पेति ॥ 'ईषदसमाप्तौ' इति दर्शनीयाशब्दात् कल्पप् । पुंवत्वे टापो निवृत्तिरिति भावः । प्रायेण दर्शनीयेत्यर्थ । दर्शनीयदेशीयेति ॥ ईषदसमाप्तौ' इति दर्शनीयाशब्दात् देशीयर् । पुंवत्वे टापो निवृत्तिरिति भावः। प्रायेण दर्शनीयेत्यर्थः । दर्शनीयरूपेति ॥ दर्शनीयाशब्दात् 'प्रशसायां रूपप्' पुंवत्वे, टापो निवृत्तिरिति भावः । प्रशस्तत्वेन द्रष्टुं योग्येत्यर्थः । दर्शनीयपाशेति । दर्शनीयाशब्दात् याप्ये पाशप् । पुंवत्वे टापो निवृत्तिरिति भावः । कुत्सितत्वेन द्रष्ट योग्येत्यर्थः । बहुथेति ॥ बह्वीशब्दात् प्रकारवचने थाल् । पुंवत्वे ङीषो निवृत्तिरिति भावः । बहुप्रकारेत्यर्थः । वृकतिरिति ॥ प्रशंसायामित्यनुवृत्तौ ‘वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि' इति वृकीशब्दात् जातिलक्षणङीषन्तात् तिल् । पुंवत्वे ङीषो निवृत्तिरिति भावः । अजथ्येति ॥ “तस्मै हितम्' इत्यधिकारे “अजाविभ्यां थ्यन्’ इति अजाशब्दात् थ्यन् । पुंवत्वे टापो निवृत्तिरिति भावः । “वृकतिरजथ्या' इत्यत्र 'जातेश्च' इति पुंवत्त्वनिषेधो न । परिगणनसामर्थ्यात् । शसीति ॥ शसि परे बह्वर्थकस्य अल्पार्थकस्य पुंवत्वं वक्तव्यमित्यर्थः । त्रतसावित्यादिपरिगणितेष्वनन्तर्भावाद्वचनमिदम् । बह्वीभ्य इति ॥ बह्वीभ्यो देहीत्यर्थे 'बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्' इति बह्वीशब्दात् शस् । पुंवत्वे ङीषो निवृत्तिरिति भावः । सम्प्रदानकारकस्फोरणाय देहीति शब्दः । अल्पश इति ॥ अल्पाभ्यो देहीत्यर्थः । पुंवत्वे टापो निवृत्तिरिति भावः । त्वतलोरिति ॥ त्वप्रत्यये तलप्रत्यये च परे गुणोपसर्जनद्रव्यवाचिनः पुंवत्वं वक्तव्यमित्यर्थः । कर्त्रीत्वमिति ॥ कत्रीशब्दस्य क्रियानिमित्तत्वान्न गुणवचन त्वमिति भावः । 'आकडारात्' इति सूत्रभाष्ये समासकृदन्ततद्धितान्ताव्ययसर्वनामजाति- सङ्खयासज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति स्थितम् । प्रकृते च गुणवचनशब्देन एतदेव विवक्षितम् । 'वोतो गुणवचनात्’ इति सूत्रभाष्यस्थं “सत्त्वे निवशतेऽपैति " इत्यादिगुणलक्षणन्तु नात्र प्रवर्तते । अत एव 'एकतद्धिते च' इति सूत्रभाष्ये एकस्याः

71