पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
समासप्रकरणम्]
५५९
बालमनोरमा

८३३ । नधृतश्च । (५-४-१५३)

नद्युत्तरपदाद्ददन्तोत्तरपदाच बहुव्रीहेः कप्स्यात् । पुंवद्भावः ।

८३४ । केऽणः । (७-४-१३)

के परेऽणो ह्रस्वः स्यात् । इति प्राप्ते ।

८३५ । न कपि । (७-४-१४)

कपि परे अणो ह्रस्वो न स्यात् । कल्याणपञ्चमीकः पक्षः । अत्र तिरो हितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृकः । ' अप्रियादिषु' किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । स्वसा । कान्ता । क्षान्ता । समा । चपला । दुहिता ।


मुख्या भवतीत्यर्थः । उद्भूतावयवस्य रात्रिसमुदायस्य प्रधानत्वेऽपि तद्धटकतया यथा प्रथमाद्याश्चतस्रो रात्रयः समासाभिधेयाः, एवं पञ्चम्यपि रात्रिस्समासाभिधेया भवतीति समस्यमानपञ्चमीपदार्थस्य अन्यपदार्थानुप्रवेशात् प्राधान्यामिति भावः । अन्यत्रत्विति ॥ कल्याणपञ्चमीकः पक्ष इत्यत्र पूरण्या रात्रेरन्यपदार्थप्रवेशाभावात् अप्राधान्यादप्प्रत्ययाभावे सति विशेषो वक्ष्यत इत्यर्थः । नद्यृतश्च ॥ नदी च ऋचेति समाहारद्वन्द्वात्पञ्चमी । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते । तदाक्षिप्तमुत्तरपदं नद्यृभ्द्यां विशेष्यते । तदन्तविधिः । “उरः प्रभृतिभ्यः’ इत्यतः कबित्यनुवर्तते । तदाह । नद्यत्तरपदादिति ॥ नद्यन्तोत्तरपदादित्यर्थः । कप् स्यादिति ॥ तद्धितस्समासान्तश्चत्यपि बोध्यम् । तथाच कल्याणी पञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीहौ सति व्यपदेशिवत्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कबिति भावः । नद्यन्तात् बहुव्रीहेरिति न व्याख्यातम् । बहुधीवरीति बहुव्रीहेः नद्यन्तत्वात् कबापत्तेः । नद्यन्तोत्तरपदादिति व्याख्यानेन तु न दोषः । धीवन्शब्दस्योत्तरपदस्य नकारान्तत्वेन नदीत्वाभावादिति शब्देन्दुशेखरे विस्तरः। पुंवद्भाव इति ॥ पूरण्याः रात्रेः समासवाच्यत्वाभावेन निषेधाभावादिति भावः । केऽणः॥ ह्रस्वस्यादिति ॥ 'शॄदॄप्राम्' इत्यतस्तदनुवृत्तेरिति भावः । न कपि ॥ अणो ह्रस्व इति ॥ “केऽणः’ इत्यतः 'शॄदॄप्राम्' इत्यतश्च तदनुवृत्तेरिति भावः । ननु कल्याणपञ्चमीकः पक्ष इत्यत्र पञ्चदशाहोरात्रात्मके पक्षे अन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात् प्राधान्यन्दुर्वारमित्यत आह । अत्र तिरोहितेति ॥ रात्रेः तत्प्रवेशाभावात् अप्राधान्यमिति भावः । भाष्ये एवमुदाहरणमेवात्र लिङ्गम् । ऋदन्तोत्तरपदात्कपमुदाहरति । बहुकर्तृक इति ॥ बहव: कर्तारो यस्येति विग्रहः । तदेवमपूरणीप्रियादिष्वित्यत्र पूरणीविषयं प्रपञ्च्य प्रियादिषु परेषु पुंवद्भावनिषेधस्य प्रयोजनं पृच्छति । अप्रियादिषु केिमिति ॥ कल्याणीप्रिय इति ॥कल्याणी प्रिया यस्येति विग्रहः । प्रियादिगणं पठति । प्रिया, मनोज्ञेत्यादि ॥ ननु