पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
समासप्रकरणम्]
५५५
बालमनोरमा

ऽभावो यत्र तथाभूतस्य स्रीवाचकस्य शव्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे, न तु पूरण्यां प्रियादौ च परतः । “गोस्त्रियोः ---' (सू ६५६) इति ह्रस्वः । चित्रा गावो यस्येति लौकिकविग्रहे 'चित्रा अस्' ' गौ अस्' इत्यलौकिकविग्रहे, चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्त्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् । चित्राजरतीगुः-


इदमुपलक्षणम् । निपातनात् अप्रथमान्तस्यापि बहुत्रीहिः परशब्दलोपश्चेत्यपि बोध्यम् . यद्वा अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमी । नन्वेवमपि स्त्रिया इति षष्ठ्यन्तस्य “भाषितपुंस्कादनूङ्' इति विशेषणं स्यात्, तर्हि भाषितपुंस्कादनूइ इति षष्ठी श्रूयेतेत्यत आह । षष्ठ्याश्च लुगिति ॥ निपातनादित्यनुषज्यते । भाषितः पुमान् येन तद्राषितपुंस्कम् तदस्यास्ति इति अर्श आद्यच् । पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् । 'तृतीयादिषु भाषितपुंस्कम्' इत्यत्र व्याख्यातमेतत् । तदाह । तुल्ये प्रवृत्तिनिमित्ते इति ॥ स्त्रीवाचकस्य शब्दस्येति ॥ स्त्रीलिङ्गस्येत्यर्थः । स्त्रिया इति षष्ठ्यन्तम्, न स्रीप्रत्ययपरमिति भावः । पुंवदिति रूपातिदेशः, पुंस इव पुंवदिति षष्ठयन्ताद्वतिः । तदाह । पुंवाचकस्येव रूपमिति ॥ स्त्रियमिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं, किन्तु स्त्रीलिङ्गपरं 'तच्चालुगुत्तरपदे' इत्यधिकृते उत्तरपदेऽन्वति । तदाह । स्त्रीलिङ्गे उत्तरपदे इति ॥ अपूरणप्रियादिष्वित्येतह्याचष्टे । नतु पूरण्यां प्रियादौ च परत इति ॥ पूरणीति स्त्रीलिङ्गनिर्देशात् स्त्रीलिङ्गः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयः । तुल्ये प्रवृत्तिनिमित्ते इति किम् । कुटीभार्यः । अत्र पुंवत्वं न भवति । कुटीशब्दे घटे पुलिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदात् । स्त्रीप्रत्ययः पुंवत्स्यादित्युक्ते तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत् । ततश्च पट्वी भार्या यस्य सः पटुभार्यः इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लोपे तस्य 'अचः परस्मिन्' इति स्थानिवत्वादुकारस्य यण् स्यात् । हृस्व इति ॥ चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति चित्रगोशब्दे ओकारस्य “गोस्त्रियोः' इति उकारो हस्व इत्यर्थः । ननु चित्र अस् इति अलौकिकविग्रहे समासाभ्युपगमे सुब्लुकः प्राक् पूर्वसवर्णदीर्घ एकादेशे कृते तस्य परादित्वे असोर्लुकि चित्रगुरित्यकारो न श्रूयेत । पूर्वान्तत्वे तु परिशिष्टस्य सकारमात्रस्य सुप्त्वाभावाल्लुक न स्यादित्यत आह । चित्रा अस् इति ॥ गोशब्दस्य स्त्रीलिङ्गत्वात् तद्विशेषणत्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः । 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या अन्तरङ्गानपि विधीन् वहिरङ्गो लुग्बाधते' इति न्यायात् प्रागेव पूर्वसवर्णदीर्घात् सुब्लुगिति भावः । चित्रगुरिति बहुव्रीहौ चित्राशब्दस्य पुंवत्त्वमिति भावः । रूपवद्भार्यभार्या इति ॥ रूपवती भार्या यस्यति विग्रहः। अत्र उपसर्जनह्रस्वः । रूपवतीशब्दस्य पुंवत्त्वम्। ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः । 'सुप् सुपा' इत्येकत्वस्य विवक्षितत्वादित्यत आह । अनेकोक्त्तेरिति ॥ शेषग्रहणात् प्रथमान्तमिति लब्धम् । एकस्य प्रथमान्तस्य