पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५६
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

जरतीचित्रागुर्वा । एवं दीर्घतन्वीजङ्घः-तन्वीदीर्घजङ्घः । त्रिपदे बहुव्रीहौ प्रथम न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । । द्वितीयमपि न पुंवत् पूर्वपदत्वाभावात् । “उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपद्शब्दस्तु प्रथमावयवे' इति वदन्ति । वस्तुतस्तु नेह पूर्वपद्माक्षिप्यते । आनङ्ऋतः-' (सू ९२१) इत्यत्र यथा।तेनोपान्त्यस्य पुंवदेव । ' चित्राजरद्गुः 'इत्यादि । अत एव 'चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भऽपि चित्राजरद्गुः '


समासो नोपपद्यते । समास इत्यन्वर्थसंज्ञाविज्ञानात् । ततश्चार्थादनेकं प्रथमान्तामिति सिद्धे पुनरनेकग्रहणात् द्विबहूनां प्रथमान्तानां बहुत्व्रीहिरिति भाष्ये स्पष्टमिति भावः । अत्रेति ॥त्रिपद बहुव्रीहावित्यर्थः । चित्राजरतीगुः, जरतीचित्रागुर्वेति ॥ गां प्रति चित्रात्वस्य जरतीत्वस्य विशेषणत्वाविशेषात् अन्यतरस्य 'सप्तमीविशेषणे बहुव्रीहौ' इति पूर्वनिपात इति भावः । एवं दीर्धेति ॥ दीधे तन्व्यौ जड़घे यस्येति विग्रहः । उभयत्रापि पूर्वमध्यपदयोः पुंवत्वमाशङ्क्य आह । त्रिपदे इति ॥ उत्तरपदस्येति ॥ समासचरमावयवपदस्य उत्तरपदत्वात् तृतीयमेव पदमत्रोत्तरपदं वाच्यम् । तत्परकत्वञ्च मध्यमपदस्यैव, नतु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधानादित्यर्थः । ननु तर्हि मध्यमपदस्य पुम्वत्वन्दुर्वारम् । उत्तरपदपरकत्वसत्त्वादित्यत आह । द्वितीयमपि न पुंवदिति ॥ पूर्वपदत्वाभावादिति ॥ उत्तरपदेन पूर्वपदमाक्षेपाल्लभ्यते। समासप्रथमावयवपदमेव पूर्वपदम् । नतु मध्यमावयवपदमपीति भावः । ननु मध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति । मध्यमपदस्य च प्रथमपदापेक्षया उत्तरपदत्वमस्तीत्यत आह। उत्तरपदशब्दो हीति ॥ रूढ इति ॥वैयाकरणसमयासिद्ध इत्यर्थः । इति वदन्तीति ॥ एवंप्रकारेण केचिद्वदन्तीत्यन्वयः । तत्र प्रथमपदस्य त्रिपदबहुव्रीहौ नास्तिपुंवत्वमिति युज्यते । उत्तरपदपरकत्वाभावात् । मध्यमपदस्य तु पूवपदत्वाभावेऽप्यस्त्येव पुंवत्वम् 'स्त्रियाः पुंवत्' इत्यत्र तु पूर्वपदस्याश्रवणात् अनुवृत्त्यभावाच्च, किन्तु उत्तरपदे इत्यनेन पूर्वपदस्य पुंवत्वमित्यर्थात् गम्यत इति वक्तव्यन्तदपि न संभवतीत्यत आह । नेह पूर्वेपदमाक्षिप्यत इति ॥ इह 'स्त्रियाः पुंवत् इत्यत्र उत्तरपदे इत्यनुवृत्तेन पूर्वपदन्नाक्षिप्यते, नार्थाद्गम्यत इत्यर्थः । कुत इत्यत आह । आानङृत इत्यत्र यथेति । ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः ।तत्र चतुर्णो द्वन्द्वे “होतृपोतृनेष्टोद्गातारः’ इत्युपान्तस्य नेष्ठुरानङुदाहृतः 'समर्थः पदविधिः’ इत्यत्र भाष्ये । तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरुपान्त्यस्य पूर्वपदत्वाभावात् आनङ् नोपपद्येत । तस्मान्नावश्यं उत्तरपदे विहितं कार्यं पूर्वपदस्यैवेति नियम इत्यर्थः । तेनेति ॥ पूर्वपदानाक्षेपेणेत्यर्थः। उपान्त्यस्येति ॥ अन्त्यस्य समीपमुपान्त्यं, चरमावयवसमीपवर्तिनः मध्यमस्येत्यर्थः । पुंवदेवेति ॥ रूपमिति शेषः । तदेव दर्शयति । चित्राजरद्गुरिति ॥ अत्र चित्रार्शब्दस्य । न पुंवत्त्वम्। मध्यमेन व्यवधानात् । उत्तरपदपरकत्वाभावाच्चेति भावः । इत्यादीति ॥ जरतीचित्रगुः, तन्वीदीर्घजङ्घः, दीर्घतनुजङ्घः । । ननु “ आनङृतः' इत्यत्र 'होतृपोतृनेष्टोद्गातारः '