पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५४
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता


सः कण्ठेकाळ:। उष्ट्रमुखमिव मुखं यस्य सः उष्ट्रमुखः । सङ्घातविकारषष्ठयाश्चोत्तरपदलोपश्च' । केशानां सङ्घातश्चूडा यस्य सः केशचूडः । सुवर्णस्य विकारः अलङ्कारो यस्य सः सुवर्णालङ्कार । अस्तिक्षीराद्यश्च । 'अस्ति' इति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ।

८३१ । स्त्रियाः पुंवद्भाषितपुंस्कादनूड् समानाधिकरणे

स्त्रियामपूरणीप्रियादिषु । (६-३-३४)

भाषितपुंस्कादनूङ् ऊङोऽभावोऽस्यामिति बहुव्रीहिः निपातनात्पञ्चम्या अलुक , षष्ठयाश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङो-


कण्ठेकाळ इति ॥ “सुपि स्थ:’ इति कः । कण्ठे तिष्ठतीति कण्ठस्थः । उपपदसमास । अमूर्धमस्तकात्’ इति सप्तम्या अलुक् । कण्ठेस्थ इति समस्तपदम् । तस्य काळशब्देन बहुत्रीहिरियनुवादः । सुपो लुक् । तत्र कण्ठेस्थेत्येतद्बहुव्रीहेः पूर्वपदं सप्तम्यन्तपदसहितं तस्मिन् यदुत्तरपद स्थेत्येतत् तस्य लोपो वाचनिकः । कण्ठेकाळ इति सप्तम्यन्तपदघटितसमासगर्भो बहुव्रीहिः । तदवयवभूतसप्तम्याः 'अमूर्धमस्तकात्' इत्यलुक् । अथ उपमानसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति । उष्ट्रमुखमिव मुखं यस्य सः उष्ट्र मुख इति ॥ उष्ट्रस्य मुखमिव इति विग्रहे षष्ठीतत्पुरुषः । मुखशब्दो मुखसदृशे लाक्षणिक इति सूचयितुमिवशब्दः । उष्ट्रमुखमिव मुखं यस्येति विग्रहं बहुव्रीहिरित्यनुवादः । तत्र उष्ट्रमुखेत्येतद्बहुव्रीहेः पूर्वपदं तस्मिन् उत्तरपदस्य मुखशब्दस्य लोपो वाचनिकः । सङ्घातविकारषष्ठयाश्चोत्तरपदलोपश्रेति ॥ षष्ठ्यन्तात्परस्य उत्तरपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । षष्ठ्यन्तादुत्तरपदस्य लोपश्च । केशानां सङ्घातश्चूडा यस्य सः केशचूड इति ॥सङ्घातशब्दस्य लोपे रूपम् । सुवर्णस्य विकारोऽलङ्कारः यस्य सः सुवर्णालङ्कार इति ॥ अत्र विकारशब्दस्य उत्तरपदस्य लोपे रूपम् । अस्तिक्षीरादयश्चेति ॥ अस्तिक्षीरादयो बहुव्रीहौ उपसङ्ख्येया इत्यर्थः । अस्तिक्षीरा गौरित्यत्र अस्तीत्यस्य तिङन्ततया प्रथमाविभक्त्यन्तत्वाभावादप्राप्ते बहुव्रीहाविदं वचनम् । वस्तुतस्तु वचनमिदं नारब्धव्यमित्याह । अस्तीति विभक्तिप्रतिरूपकमव्ययमिति ॥ विभक्तिप्रतिरूपकत्वेन निपातितत्वादस्तीति स्वरादिनिपातमव्ययमित्यव्ययसमानार्थकम् । ततस्सोः 'अव्ययादाप्सुपः' इति लुकि प्रत्ययलक्षणेन प्रथमान्तत्वादेव सिद्धेरिदं वचनं न कर्तव्यमिति भावः । तदुक्तं भाष्ये । “अस्तिक्षीरादिवचनं नवाव्ययत्वात्” इति । स्त्रियाः पुंवत् ॥ भाषितपुंस्कादनूङिति समस्तमेकपदं स्त्रिया इति षष्ठ्यन्तस्य विशेषणमित्यभिप्रेत्य व्याचष्टे । भाषितपुंस्कादिति ॥ भाषितपुंस्कादनूङित्यस्य व्याख्यानम् । ऊङोऽभाव इति अर्थाभावेऽव्ययीभावः, नञ्तत्पुरुषो वा । भाषितपुंस्कात् इति दिग्योगे पञ्चमी । पर इति प्रथमान्तमध्द्याहार्यम् । तथाच भाषितपुंस्कात् परः अनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति । ननु समासे सति पञ्चम्या लुक्प्रसङ्ग इत्यत आह । निपातनात् पञ्चम्या अलुगिति ॥