पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४११
बालमनोरमा ।

स्मारयति घ्रापयति देवदत्तेन । * शब्दायतेर्न' (वा ११०५) । शब्दाययति देवदत्तेन । धात्वर्थसङगृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न सम्भवति तेऽत्राकर्मकाः। न त्वविवक्षितकर्माणोऽपि । तेन * मासमा सयति देवदत्तम्' इत्यादौ कर्मत्वं भवति । “देवदत्तेन पाचयति' इत्यादौ तु न ।

५४१ । हृक्रोरन्यतरस्याम् । (२-४-५३)

हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं-भृत्येन वा कटम् । * अभिवादिदृशोरात्मनेपदे वेति वाच्यम्' (वा १११४).। अभिवाद्यते दर्शयते देवं भक्तं-भत्तेन वा ।


आदिना प्रेक्षत्यादीनां सङ्गहः।स्मारयति ।। स्मरति प्रियां देवदत्तः, जिघ्रति चन्दनं देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः । शब्दायतेनेति शब्दं करोतीत्यर्थे “शब्दवैर' इत्यादिना क्यङि, “ अकृत्सार्वधातुकयोः' इति दीर्घे सनाद्यन्ताः' इति धातुत्वे श्तिपा निर्देशो ऽयम् । शब्दायेति क्यङन्तधातोः अणौ कर्ता णौ कर्म नेति वक्तव्यमित्यर्थः । शब्दाययति देवदत्तेनेति । शब्दायते देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः। देवदत्तस्य कर्मत्वाभावात् प्रयोज्यकर्तृत्वमादाय तृतीयैव । अत्र शब्दकर्मकत्वात् प्राप्तिरिति भ्रमं निरस्यति । धात्वर्थेति शब्दकर्मकमुत्पादनं शब्दायेति क्यङन्तस्य धातोरर्थः। एवञ्च शब्दात्मकं कर्म धात्वर्थे अन्तर्भूतम् । अतश्शब्दायेति क्यङन्तधातुरकर्मकः। धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्म कत्वम्’ इति “सुप आत्मनः' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । तस्मादकर्मकत्वादेवात्र प्राप्ति रित्यर्थः । एवञ्च 'शब्दाययति सैनिकै रिपून्’ इति कर्म प्रयुञ्जानाः परास्ताः । ननु मासमास्ते देवदत्तः, तं प्रेरयति मासमासयति देवदत्तं यज्ञदत्त इत्यत्र देवदत्तस्य प्रयोज्यकर्तुः कर्मत्वन्न स्यात् आसधातोर्गत्यादिष्वनन्तर्भावात् । नचाकर्मकत्वात्तदन्तर्भाव इति वाच्यम् । “ अकर्मकधातुभि र्योगे' इति मासस्य कर्मतया आसेसरकर्मकत्वासम्भवात् । किञ्च ओदनादिकर्मण अविवक्षायां देवदत्तः पचति, पाचयति देवदत्तेन यज्ञदत्तः, इत्यत्र प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वन्न स्यात् तदानीं पचेवरकर्मकत्वेन गत्यादिष्वन्तर्भावादित्यत आह । येषामिति ॥ इदश्च प्रकृतसूत्रे भाध्यकैयटयोः स्पष्टम् । हृक्रो ॥ हा च का च हृकरौ तयोरिति विग्रहः । हारयति कारयति वेति । हरति करोति वा कटं भृत्य प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुभृत्यस्य कर्मत्व विकल्पः। ह्यकोर्गत्यर्थादिष्वनन्तर्भावादप्राप्ते विभाषेयम् । ह्रक्रोरर्थान्तरे तु प्राप्तविभाषा अभ्यवहारयति सैन्धवान् सैन्धवैर्वा, विकारयति सैन्धवान् सैन्धवैर्वा.। अत्र अभ्यवहरतेर्भक्षणा र्थत्वात् विकारयतेरकर्मकत्वाच प्राप्तिः । अभिवादीति ॥ हेतुमण्ण्यन्तस्याभिपूर्वकवदघातोर् दृशिप्रकृतिकण्यन्तस्य चात्मनेपदिनोऽणौ कर्ता णौ कर्म वेत्यर्थः । अभिवादयते इति ॥ अभिबदति नमस्करोति देवं भक्तः, तं गुरुः प्रेरयतीत्यर्थः । कर्तृगामिनि फले 'णिचश्च' इत्या त्मनेपदम् । अत्र भक्तस्य प्रयोज्यकर्तुः कर्मत्वविकल्पः । अप्राप्तविभाषेयम् । परस्मैपदे तु अभि वादयति देवं भक्त्तेनेत्येव । पश्यति देवं भक्तः, तं गुरुः प्रेरयति । दर्शयते देवं भक्तं भक्त्तेन वा ।