सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

५४२ । अधिशीङ्स्थासां कर्म । (१-४-४६)

अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते-अधितिष्ठति-अध्यास्ते वा वैकुण्ठं हरेिः ।

५४३ । अभिनिविशश्च । (१-४-४७)

अभिनीत्येतत्सङ्घातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । 'परिक्रयणे सम्प्रदानम्--' (सू ५८०) इति सूत्रादिह मण्डू कप्लुत्या अन्यतरस्यांग्रहणमनुवत्य व्यवस्थितविभाषाश्रयणात्कचिन्न। पापेऽभिनिवेशः।

५४४ । उपान्वध्याङ्वसः । (१-४-४८)

उपादिपूर्वम्य वसतेराधारः कर्म स्यात् । उपवसति-अनुवसति- -अधिवसति-आवसति वा वैकुण्ठं हरेि । 'अभुक्त्यर्थस्य न' (वा १०८७) । वने उपवसति ।


‘गतिबुद्धि’ इत्यत्र बुद्धिग्रहणेन ज्ञानसामान्यवाचिन एव ग्रह्णामित्युक्तम् । तथापि “दृशेश्च' इति नित्यं प्राप्ते विकल्पः । अधिशीङ्स्थासां कर्म ॥ शीङ्, स्था, आस्, एषां द्वन्द्वः । आधि पूर्वाश्शीङ्स्थासः इति विग्रहे शाकपार्थिवादित्वात् उत्तरपदलोपः । तदाह । अधिपूर्वाणा मिति ॥ अधिकरणसंज्ञापवादोऽयम् । अधिशेते इति ॥ अधिशेते वैकुण्ठं हरिः, अधिति ष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः । अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः । वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः । अभिनिविशश्च ॥ आधारे इति कर्मेति चानुवर्तते । अभि नीति सङ्घातग्रहणम् । तदाह । अभिनीत्येतत्सङ्घातपूर्वस्येति ॥ अभिनिविशते स न्मार्गमिति ॥ आग्रहवानित्यर्थः । अप्रतिहतप्रवृत्तिमानिति यावत् । नन्वेवं सति पापेऽभि निवेशः इत्यत्रापि कर्मत्वात् द्वितीया स्यादित्यत आह । परिक्रयणे इति ॥ “परिक्रयणे' इति सूत्रादन्यतरस्याङ्ग्रहणमनुवर्त्य विभाषाश्रयणात् क्वचिन्नेत्यन्वयः । तहिं अभिनिविशते सन्मार्ग मित्यत्रापि विकल्पस्यादित्यत आह । व्यवस्थितेति । ननु 'परिक्रयणे सम्प्रदानमन्यतर स्याम्, अधारोऽधिकरणम्, अधिशीङ्स्थासां कर्म, अभिनिविशश्च' इति सूत्रक्रमः । तत्र अभिनिविशश्च' इत्यत्र कथमन्यतरस्याङ्गहणानुवृत्ति । “आधारोऽधिकरणम्’ “ अधिशीङ्कस्था सां कर्म' इत्यत्र च तदनुवृत्तेरभावादित्यत आह । मण्डूकप्लुत्येति ॥ तुल्यमिति शेषः । मण्डूकाः यथा मध्ध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवर्त्येत्यर्थः । एष्वर्थेष्वभिनिविष्टानाम्’ इति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम् । उपान्वञ्चद्याङ्कसः ॥ उप अनु अधि आङ् इत्येतेषां द्वन्द्वः । उपान्वध्याङ्पूर्वो वस् इति विग्रहे शाकपार्थिवादित्वात् समासस्तदाह । उपादिपूर्वस्येति । उपवसतीत्यादि । वैकुण्ठे वसतीत्यर्थः । उपसर्गाः