'आदिखाद्योर्न' (वा ११०९) । आदयति, खादयति वा अन्न वटुना । “ भक्षे रहिंसार्थस्य न' (वा ११११) भक्ष्यत्यन्नं वटुना । “ अहिंसार्थस्य' किम् । भक्षयति बलीवर्दान्सस्यम् । “जल्पतिप्रभृतीनामुपसङ्खयानम्' (वा ११०७) । जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः । * दृशेश्च' (वा ११०८) । दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं, न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते । तेन : स्मरति' * जिघ्रति' इत्यादीनां न।
तान् सूतः प्रेरयतीत्यर्थः । “नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः” इत्यमरः । वहन्ति बलीवर्दीः यवान्, वाहयति बलीवर्दान् देवदत्तः” इति भाष्योदाहरणात्। नियन्ता पशुप्रेरक एव विवक्षितः । आदिखाद्योर्नेति ॥ अद् भक्षणे, खादृ भक्षणे, अनयोः प्रयोज्य कर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । प्रत्यवसानार्थकत्वात् प्राप्तिः । आदयति खादयति वेति ॥ अत्ति खादति वा अत्रं वटुः, तं प्रेरयतीत्यर्थः । भक्षेरिति । अहिंसार्थकस्य भक्षधातोः प्रयोज्यकर्तुः कर्मत्वन्नेति वक्तव्यमित्यर्थः । ननु “गतिबुद्धि' इति सूत्रे अणौ कर्तुः णौ कर्मत्व मुक्तम् । भक्षधातुस्तु चुरादित्वात् नित्यं स्वार्थिकण्यन्तः । तस्याणिकर्ता नास्त्येव । अतस्तस्य कर्मत्वनिषेधोऽनुपपन्नः, अप्रसक्तत्वादिति चेन्न । अत एव निषेधाल्लिङ्गात् “गतिबुद्धि' इति सूत्रे णिग्रहणेन हेतुमत एव विवक्षितत्वात् । एवञ्च हेतुमण्णिचि अनुत्पन्ने सति अण्यन्तभिक्षि धातुवाच्यां क्रियां प्रति कर्तुः हेतुमण्यन्तवाच्यां क्रियां प्रति कर्मत्वमित्यर्थः पर्यवस्यतीति न दोषः । भक्षयत्यन्त्रं वटुनेति ॥ चुरादिण्यन्तात् भक्षधातोर्हेतुमण्णिचि पूर्वणेर्लोपे हेतु मण्ण्यन्तातिबादौ सति भक्षयतीति रूपम् । एवञ्च भक्षयत्यन्नं वटुः, खादतीत्यर्थः । तं प्रेर यतीति ण्यन्तस्यार्थः । भक्षयति बलीवर्दान् सस्यमिति ॥ क्षेत्रे प्ररूढमलूनं सस्यमिह विवक्षितम् । तस्य तदानीमन्तःप्रज्ञजीवत्वात् तद्भक्षणं हिंसैवेति भावः । जल्पतिप्रभृती नामिति । एतेषामणौ यः कर्ता सः णौ कर्म स्यादिति वक्तव्यमित्यर्थः । जल्पयति भाषयति वेति । धर्ममिति शेषः । पुत्रो धर्मं जल्पति भाषते वा, तं देवदत्तः प्रेरयती त्यर्थः । गत्यर्थादिष्वनन्तर्भावाद्वचनम् । नच शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थमिति वाच्यम् । अत एव शब्दकर्माकर्मकाणामित्यस्य शब्दः कर्म कारकं येषामित्यर्थात् । अन्यथा वेदमध्द्यापयद्विधिमित्यसिद्धेः । वार्तिके आदिना व्याहरतिवदत्यादीनां सङ्ग्रहः । भाष्ये तु के पुनर्जल्पतिप्रभृतयः, जल्पति विलपति आभाषते' इत्येवोक्तम् । परिगणनमित्येके, उदाहरण मात्रप्रदर्शनमित्यन्ये । दृशेश्चेति ॥ 'दृशिर् प्रेक्षणे' अस्याप्यणौ यः कर्ता सः णौ कर्म स्यादिति वक्तव्यमित्यर्थः । दर्शयतीति ॥ हरिं भक्ताः पश्यन्ति, तान् गुरुः प्रेरयतीत्यर्थः । ननु दृशेर्बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनमित्यत आह । सूत्रे इति ॥ 'गति बुद्धि' इति सूत्रे बुद्धिग्रहणेन ज्ञानसामान्यवाचिनां “विद ज्ञाने, ज्ञा अवबोधने' इत्यादीनामेव ग्रहणम्, नतु ज्ञानविशेषवाचिनामित्येतत् * दृशेश्च' इत्यनेन विज्ञायते । अन्यथा “दृशेश्च' इत्यस्य वैयर्थ्यप्रसङ्गात् । तेनेति ॥ ज्ञापनेनेत्यर्थः । स्मरतिजिघ्रतीत्यादीनामिति ॥