प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः । वचनं संख्या । एक: । द्वौ । बहवः । इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ।
५३३ । सम्बोधने च । (२-३-४७)
इह प्रथमा स्यात् । हे राम ।
इति प्रथमा विभक्तिः
यते । ततश्च प्रत्ययार्थे परिमाणसामान्ये द्रोणशब्दार्थात्मकप्रकृत्यर्थः परिमाणविशेषः सामान्य विशेषात्मकाभेदसंसर्गेणान्वेति । परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहावन्वेति । तथाच द्रोणाख्यपरिमाणविशेषात्मकं यत् परिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति । अन्यथा द्रोणाख्यपरिमाणविशेषपरिच्छिन्नो व्रीहिरित्येव बोधस्स्यात् । परिमाणत्व सामान्यं न प्रतीयेत । तदर्थमिह परिमाणग्रहणमित्यर्थः । वचनं सङ्खयेति ॥ पूर्वाचार्येैस्तथा संज्ञाकरणादिति भावः । तथाच सङ्ख्यामात्रे प्रथमेति लभ्यते । नच लिङ्ग मात्राद्याधिक्ये परिमाणमात्राधिक्ये इतिवत् सङ्खयामात्राधिक्ये इति कुतो न व्याख्यातमिति वाच्यम् । केवललिङ्गपरिमाणयोः क्वाप्युपस्थित्यभावेन तथा व्याख्यानेऽपि एकद्विबहुशब्देष्वेक त्वद्वित्वबहुत्वानां केवलानान्नियतोपस्थितिसत्त्वेन सङ्खयामात्रे इत्येव व्याख्यातुमुचितत्वात् । अत एव भाष्ये वचनग्रहणस्य एकः द्वौ बहवः इत्युदाहृतम् । ननु एकः द्वौ बहवः इत्यत्र एकत्व द्वित्वबहुत्वानां नियमेनोपस्थित्या 'प्रातिपदिकार्थे' इत्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह । इहेति । प्रकृतिभिरेवैकत्वादीनामुक्तत्वात् “उक्तार्थानामप्रयोगः' इति न्यायेन प्रथमा विभक्तेरप्राप्तौ तदर्थं वचनग्रहणामित्यर्थः । तथाच विभक्तिरिहानुवादशब्दसाधुत्वार्थ प्रयोज्या । न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः' इति अनभिहितसूत्रभाष्यसिद्धन्यायादिति भावः । इदमेवाभिप्रेत्योक्त्तं भाष्ये । “उक्त्तेष्वप्येकत्वादिषु प्रथमा' इति । मात्रग्रहणात् कारका द्याधिक्ये प्रथमा न भवति । अत्र “ अर्थे प्रथमा, इत्येव सूत्रयितुमुचितम्” इति प्रौढमनोरमादौ प्रपञ्चितम् । सम्बोधने च ॥ इहेति ॥ सम्बोधने अधिके गम्येऽपि प्रथमा स्यादित्यर्थः । सम्बोधनमभिमुखीकृत्य ज्ञापनम् । हे रामेति ॥ मां पाहीति शेषः । इह रामं प्रात मद्रक्षणं ज्ञाप्यम् । नच “हे राजन् सार्वभौमो भव' इत्यत्र सार्वभौमशब्दादपि प्रथमा = स्यादिति वाच्यम् । सम्यक् बोधनमेव हि सम्बोधनम् । समित्युपसर्गबलात् श्रोतरि विशिष्य राजत्वा दिना ज्ञाते सत्येव तं प्रति कश्चिदर्थो ज्ञापयितुं शक्यः, नान्यथा । ततश्च सम्बोधनविभक्तिरिय मनुवाद्यविषयैवेति लभ्यते । न तु विधेयविषया । तथाच सार्वभौमत्वस्य विधेयस्य इदानी मसिद्धत्वेन अनुवाद्यत्वाभावान्न सार्वभौमशब्दात् सम्बोधनविभक्तिरिति मञ्जूषायां विस्तरः ॥
इति प्रथमा विभक्तिः ।