पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
[कारके प्रथमा
सिद्धान्तकौमुदीसहिता

नीचैः । कृष्ण: । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थ मात्रे इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राद्याधिक्यस्य । तट: तटी-तटम् । परिमाणमात्रे द्रोणो व्रीहिः । द्राणरूपं यत्परिमाणं तत्परि च्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् ,


भानात् कथं प्रातिपदिकार्थस्योदाहरणान्येतानीत्यत आह । अलिङ्गा इत्यादि । “ अव्यया दाप् सुपः' इति सूत्रे “आव्ग्रहणं व्यर्थमलिङ्गत्वात्' इति भाष्योक्तरीत्या अव्यये कस्यापि लिङ्गस्यानुपस्थितिरिति प्रातिपदिकार्थमात्रे इत्यस्य भवत्यव्ययमुदाहरणम् । कृष्णशब्दे पुंस्त्व स्य श्रीशब्दे स्त्रीत्वस्य ज्ञानशब्दे नपुंसकत्वस्य च नियमेन भानमस्ति । तेषां नियतलिङ्गत्वात् । अतस्तेषु लिङ्गानामपिं प्रातिपदिकार्थान्तर्भावात् तेषामपि प्रातिपदिकार्थमात्रे इत्युदाहरणत्वं निर्बाधमिति भावः । यद्यपि कृष्णः पटः, कृष्णा पटी, कृष्णं वस्त्रम्’ इत्यादौ कृष्णशब्द स्त्रिलिङ्गः । तथापि भगवत्पर एवात्र कृष्णशब्दो विवक्षित इति भावः । नचव प्रातिपदिको क्तार्थे किं प्रथमयेति वाच्यम् । एकत्वादिसङ्खयाबोधार्थत्वात् । नचाव्ययात् प्रथमोत्पत्तेः फला भावः । ‘अव्ययादाप् सुपः’ इति लुकोऽवश्यं प्रवृत्तेरिति वाच्यम् । पदत्वार्थ सुबुत्पत्तरावश्य कत्वात् । तेन उचैरित्यादौ रुत्वविसर्गीौं “उचैस्ते सम्यगुच्चारणम्’ इत्यादौ तेमयादिसिद्धिश्च भवति । अनियतेति । अनियतलिङ्गास्तु तटादिशब्दाः लिङ्गमात्राधिक्यस्योदाहरणम् । तत्र लिङ्गानामनियतोपस्थितिकतया प्रातिपदिकार्थानन्तर्भावादित्यर्थः । तटः तटी तट मिति । “तटं त्रिषु” इत्यमरः । परिमाणमात्रे इति । उदाहरणं वक्ष्यते इत्यर्थः । द्रोणो व्रीहिरिति ।। द्रोणः परिमाणविशेषः । “जालसूर्यमरीचिस्थं त्रसरेणुरिति स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते । गौरस्तु ते त्रयष्षट् ते यवो मध्द्यस्तु ते त्रयः। कृष्णलः पञ्च ते माषः ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । पलद्वयन्तु प्रसृतं द्विगुण कुडबं मतम् ॥ चतुर्भिः कुडबैः प्रस्थः प्रस्थाश्चत्वार आढकः । आढकैस्तैश्चतुर्भिस्तु द्रोण इत्यभिधीयते ॥ कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास्तु षोडश ।” इति स्मरणात् । व्रीहिरिति ॥ जातावेकवचनम् । “जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् इति वचनात् । व्रीहिराशिरिति यावत् । नह्येकस्याः व्रीहेिव्यक्त्तेः द्रोणपरिमाणं सम्भवति । ननु द्रोणाख्यपरिमाणविशेषस्य त्रीहिव्यक्त्तेश्च कथमभेदान्वयः । धर्मधर्मिणोर्भेदादित्यत आह । द्रोणरूपमिति । तथाचाभेदान्वयस्य बाधादेव द्रोणपरिमाणस्य व्रीहिव्यक्त्तेश्च परिच्छेद्यपरि च्छेदकभावेनान्वयाभ्युपगमान्नोक्तदोष इति भावः । ननु द्रोणशब्दस्य परिमाणविशेषवाचिनो नियतपुल्लेिंङ्गत्वे प्रातिपदिकार्थमात्रे इत्येव सिद्धम् । यदि तु “ अस्त्रियामाढकद्रोणौ' इति द्विलिङ्गता, तर्हि लिङ्गमात्राद्याधिक्ये इत्येव सिद्धम्, तत् किं परिमाणग्रहणेनेति चेत्तत्राह । प्रत्ययार्थे परिमाणे इति । न हि द्रोणत्वेन रूपेण परिमाणविशेषवाचिद्रोणशब्दात् स्वार्थे प्रथमा विभक्तिरिष्यते, येन प्रातिपदिकार्थमात्रे इत्यनेन गतार्थता स्यात् । किन्तु द्रोणत्वेन परि माणवाचिनो द्रोणशब्दात् परिमाणत्वसामान्यरूपेण द्रोणपरिमाणे विवक्षिते प्रथमा विभक्तिर्विधी