पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रारस्तु

॥ अथ कारकप्रकरणम् ॥


अथ प्रथमा विभक्तिः ।

५३२ । प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा । (२-३-४६)

नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्राति पदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये संख्यामात्रे च प्रथमा स्यात् । उच्चैः।


अथ कारकप्रकरणप्रारम्भः । तदेवं “डयाप्प्रातिपदिकात्' इत्यधिकृत्य विहिताः स्वादिप्रत्यास्सप्रपञ्चन्निरूपिताः । तत्र प्रथमादिसप्तम्यन्तसप्तविभक्तीनामर्थविशेषव्यवस्थान्दर्श यितुमुपक्रमते । प्रातिपदिकार्थेति । ननु प्रवृत्तिनिमित्तं व्यक्तिश्चेति द्विकं प्रातिपदिकार्थः प्रवृत्तिनिमित्तं व्यक्तिः लिङ्गं सङ्गया चेति चतुष्कं प्रातिपदिकार्थः, प्रवृत्तिनिमित्तं व्यक्तिः लिङ्गं सङ्खया कारकश्चेति पञ्चकं प्रातिपदिकार्थः, इत्येते पक्षाः “सरूपाणामेकशेष एकविभक्तौ, स्त्रियाम्' इत्यादिसूत्रेषु भाष्ये स्थिताः मञ्जूषायां प्रपच्चिताश्च । तत्र त्रिकादिपक्षेषु लिङ्गस्यापि प्रातिपदिकार्थत्वात् पृथग्ग्रहणं व्यर्थमित्यत आह । नियतेति ॥ नियता उपस्थितिर्यस्येति विग्रहः । यस्मिन् प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स तदर्थ इत्यर्थः । एवञ्च तटः तटी तटम् इत्याद्यनियतलिङ्गेषु नियमेन कस्यापि लिङ्गस्योपस्थित्यभावात् प्राति पदिकार्थशब्देनाग्रहणात् पृथक् लिङ्गग्रहणमावश्यकमिति भावः । मात्रशब्दस्य वचनशब्देनैवा न्वयभ्रमं वारयति । मात्रशब्दस्येति ॥ प्रातिपदिकार्थश्च लिङ्गश्च परिमाणञ्च वचनश्चेति द्वन्द्वः । प्रातिपदिकार्थलिङ्गपरिमाणवचनान्येव प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रमित्यस्वपद् विग्रहः । मात्रशब्दोऽवधारणे । “मात्रं कार्त्स्न्येऽवधारणे ' इत्यमरः । “मयूरव्यंसूकादयश्च इति नित्यसमासः । मात्रशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात् प्रातिपदिकार्थे, लिङ्गे, परिमाणे, वचने च, प्रत्यकमन्वय इत्यर्थः । वचनं सङ्खयेति वक्ष्याति । ननु प्रातिपदिकार्थमात्रे लिङ्गमात्रे परि माणमात्रे सङ्खयामात्रे च प्रथमेत्यनुपपन्नम् । लिङ्गादीनां केवलानां प्रातिपदिकार्थे विना काप्य नुपस्थितेरित्याशङ्कय अत एव बाधकात् लिङ्गमात्रे अधिके इति विवक्षितमित्यभिप्रेत्य व्याचष्टे । लिङ्गमात्राद्याधिक्ये इति । लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये चेत्यर्थः । प्रातिपदि कार्थमात्रे इत्यस्योदाहरति । उच्चैरित्यादि । नन्वव्ययेषु 'सामान्ये नपुंसकम्' इति नपुंसकत्वस्य च कृष्णशब्दे पुंस्त्वस्य च श्रीशब्दे स्त्रीत्वस्य च ज्ञानशब्दे नपुंसकत्वस्य च