पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
कारके द्वितीया
सिद्धान्तकौमुदीसहिता

अथ द्वितीया विभक्तिः

५३४ । कारके । (१-४-२६)

इत्यधिकृत्य ।

५३५ । कर्तुरीप्सिततमं कर्म । (१-४-४९ )

कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञ स्यात् । “कर्तुः' किम् । माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न तु कर्तुः । तमब्ग्रहणं किम् । पयसा ओदनं भुङ्क्ते । “कर्म' इत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ।


अथ द्वितीया विभक्तिः-कारके ॥ इत्यधिकृत्येति । संज्ञाः वक्ष्यन्ते इति शेषः । क्रियाजनकं कारकम्। करोति क्रियान्निर्वर्तयतीति भाष्ये व्युत्पत्तिदर्शनात् । ब्राह्मणस्य पुत्रं पश्यती त्यत्र ब्राह्मणस्यान्यथासिद्धत्वान्न कारकत्वम्। कर्तुरीप्सित ॥ कारके इत्यनुवर्तते । प्रथमया वि परिणम्यते । आप्तुमिष्यमाणमीप्सितम् । आप्लृ व्याप्तौ, अस्मात् सन्नन्तात् 'मतिबुद्धिपूजार्थे भ्यश्च' इति वर्तमाने त्क्तः । मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । “क्तस्य च वर्तमाने' इति कर्तरि षष्ठी । अतिशयेनेप्सितमीप्सिततमम् । धातूपात्तव्यापाराश्रयः कर्ता । केनाप्तुमित्याकाङ्क्षायां कर्तृविशेषणीभूतव्यापारेणेत्यर्थालभ्यते । फलितमाह । कर्तुः क्रिययेत्यादिना ।। क्तप्रत्ययो पात्तं वर्तमानत्वन्तु न विवक्षितम् । तेन कटं कति, कृतवान्, इत्यादौ नाव्याप्तिः । आप्ति स्सम्बन्धः । एवञ्च कर्ता स्वनिष्ठव्यापारप्रयोज्यफलेन सम्बडुमिष्यमाणमित्यर्थः । यथा तण्डु लान् पचति इत्यत्र विक्लित्त्यनुकूलव्यापारः पचेरर्थः । तप्तोदकप्रस्वेदनकृतप्रशिथिलावयवकत्वा त्मकं मृदुविशदत्वं विक्लित्तिः, तदनुकूलव्यापारः अधिश्रयणोदकासेचनैधेोपकर्षणप्रज्वलनादिरूप इति कारके इत्यादिसूत्रभाष्ये स्पष्टम् । अत एव “फलव्यापारयोर्धातुः' इति सिद्धान्तः । तथाच तण्डुलानधिश्रयणादिव्यापारेण विक्लेदयतीत्यर्थः । अधिश्रयणादिरूपकर्तृव्यापारप्रयोज्यविक्लितरूप फलाश्रयत्वात् तण्डुलानां कर्मत्वम् । ननु कर्तृग्रहणं व्यर्थम्। नच व्यापारलाभाय तदिति वाच्यम्। केनाप्तुमित्याकाङ्क्षायां कारकाधिकारादेव तल्लाभादिति पृच्छति । कर्तुः किमिति । माषेष्व श्वं बध्नातीति ॥ माषेषु भक्षणाय प्रवृत्युन्मुखमुदरव्यधाभयात्तद्भक्षणान्निवर्तयितुमन्यत्र बध्ना तीत्यर्थः । अत्र माषाणां कर्मत्वनिवृत्त्यर्थे कर्तृग्रहणमिति भावः । ननु कर्तृग्रह्णणे कृते कथं नोक्त दोष इत्याह । कर्मणः ईप्सिताः माषाः, न तु कर्तुरिति । बन्धनकर्मीभूतस्याश्वस्यैवात्र माषाः ईप्सिताः, नतु बन्धनकर्तुः । अश्वरक्षणस्यैव तदपेक्षितत्वादित्यर्थः । तमब्ग्रहणं किमिति ॥ तमबन्तमीप्सिततममित्येतत् किमर्थं 'कर्तुरुद्देश्यं कर्म' इत्येवास्तु इति प्रश्नः । पयसा ओदनं भुङ्क्ते इति ॥ पयसा मिश्रमित्यर्थः । यद्यप्यत्र भोक्तुरोदन एव पयसा मिश्रः उद्देश्यः, नतु केवलं पयः, नापि केवल ओदनः । नह्यसौ केवलपयःपानेन तुष्यति,