पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३७१
बालमनोरमा ।

इति गृह्यम् । त्रीण्येतान्यस्या इति बहुव्रीहि अनुदात्तात्' किम् । श्वेता घृतादीनां च' (फ २१) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री । पिशङ्गादुपसंख्यानम्' (वा २४५५) । पिशङ्गी-पिशङ्गा। असितपलि तयोर्न' (वा २४५३) । असिता । पलिता । “छन्दसि क्रमेके' (वा २४५४) असिक्री । पलिक्री । अवदातशब्दस्तु न वर्णवाची, किं तु विशुद्धवाची तन्न अवदाता इत्येव ।

४९७ । अन्यतो ङीष् । (४-१-४०)


अवयवसंस्थानानि यस्या इति बहुव्रीहौ त्रयेतशब्द तत्र एतशब्दस्य वर्णवाचिनः उपसर्ज नत्वात् “डीब्रत्वे न स्याताम् । अनुपसर्जनादित्यस्य वर्णान्तविशेषणत्वे तु त्रयेतशब्दस्यानुप सर्जनत्वान्न दोष इति भावः । शलल्येति ॥ शल्यकाख्यमृगवेिशेषस्य अङ्गरुहा सूची शललीति याज्ञिकप्रसिद्धिः । गृह्यमिति ॥ गृह्यन्ते सङ्गृह्यन्ते औपासनाग्निसाध्यकर्मण्यत्रेति व्युत्पत्त्या आपस्तम्बाश्वलायनादिप्रणीतकल्पसूत्रविशेष उच्यते त्रयेण्येति णत्वमार्षम् यजुर्वेदे तु “त्रि एण्या शलल्या निवर्तयेत' इति पठितम् । तत्र त्रीणि एतानि श्वेतानि यस्या इति विग्रहः। यणभावो णत्वञ्च आर्षमिति वेदभाष्ये भट्टभास्करः । ननु “वर्णानान्तणति' इति श्वेतशब्दस्याद्युदात्तत्वात् शिष्टस्वरेणानुदात्तान्तत्वमेवत्यत आह । घृतादीनामिति ॥ अत इत्येवेति अजाद्यतष्टाप्' इत्यस्मात् अत इत्यनुवर्तत एवेत्यर्थः । शितिः स्त्रीति “शिती धवळमेचकैौ' इत्यमरः । पिशङ्गीति ॥ 'लघावन्ते' इति पिशङ्गशब्दस्य मध्यो दात्ततया शिष्टस्वरेणानुदात्तान्तत्वेऽपि तोपधत्वाभावात् अप्राप्तो डीबुपसङ्खयायते । “ अन्यतो डीषु' इति वक्ष्यमाणडीषोऽपवाद स्वरे विशेषः । असितेति ॥ वार्तिकमेतत् । असित शब्दस्य कृष्णवाचकतया पलितशब्दस्य श्वेतवाचकतया च वर्णानान्तणति इति प्राप्ते डीब्रत्वे निषिध्येते । छन्दसि क्रमेके इति ॥ इदमपि वार्तिकम् । असितपलितयो स्तकारस्य डीप्सन्नियोगेन क्रादेशम् अन्येय आचार्याः इच्छन्तीत्यर्थः। असिक्रीति ॥ आसित शब्दात् ङीप्तकारस्य क्रादेशे पररूपे 'यस्त्येति च' इत्यत्रकारलोपः। क्र इति नकारान्त एवादेश इत्यन्ये । एवं पलिक्रीत्यपि पलितं जरसा शौकलयम्” इत्यमर ननु “अवदातः सितो गौरः” इति कोशादवदातशब्दस्य वर्णवाचित्वात् 'लघावन्ते ’ इति मध्योदात्ततया अनुदात्ता न्तत्वात्तोपधत्वाच्च वर्णोदनुदात्तात्' इति ङीघ्नत्वे स्यातामित्यत आह। अवदातशब्द स्त्निति ।। अवदातस्सिते पीते शुद्धे” इति कोशात् । 'दैप् शोधने' इत्यस्मात् तप्रत्यये अवदात्तशब्दस्य व्युत्पत्नेश्चेति भावः एतच्च ' पुंयागादाख्यायाम् इति सूत्र भाष्ये स्पष्टम् ।अवदातस्सितो गौरः” इति कोशस्तु शुद्धत्वसाधर्म्यात् बोध्द्यः। अन्यतो ङीष्।। पञ्चम्यास्तसिः । वर्णादिति, अनुदात्तादिति, तोपधादिति, चानुवर्तते । तत्र कस्मादन्यतः इत्यपेक्षायां तोपधादिति प्रतियोगित्वेनान्वेति । तोपधापेक्षया अन्यत इति । तदाह । ती पधभिन्नादिति ॥ कल्माषीति॥ चित्रवर्णेत्यर्थः।चित्रकिम्मीरकल्माषशबऴैताश्च