पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

मनुशब्दस्यौकारादेशः स्यादुदातैकारश्च वा । ताभ्यां सन्नियोगशिष्टो डीप्च । मनोः स्त्री मनायी-मनावी-मनुः ।

४९६ । वणोदनुदात्तात्तोपधात्तो नः । (४-१-३९)

वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङी प्स्यात् तकारस्य नकारादेशश्च । एनी—एता । रोहिणी-रोहिता । वर्णानां तणतिनितान्तानाम्’ (फि ३३) इति फिट्सूत्रेणाद्युदात्तः । 'त्र्येण्या शलल्या'


ए चेति, उदात्त इति, ङीबिति, चानुवर्तते । तदाह । मनुशब्दस्येति । उदात्त ऐकारश्च वेति ॥ औकार ऐकारश्च वा स्यादित्यर्थः । उदातैकार इति समाननिर्देशादुदात्त इत्यौकारेण न सम्बध्द्यत इति सूचितम् । तच्च वृत्तिपदमञ्जर्योः स्पष्टम् । चकारात् ङीप् ऐकारौकाराभ्यां समुच्चीयते । तदाह । ताभ्यामिति ॥ ऐकारौकाराभ्यां समुच्चयेनैव विहित इत्यर्थः । ततश्च तदुभयाभावपक्षे ङीबपि नेति लभ्यते । “सन्नियोगशिष्टानां सह वा प्रवृत्तिस्सह वा निवृत्ति:’ इति परिभाषावशादिति भावः । इयन्तु परिभाषा ‘पूतक्रतोरै च' इतिसूत्रभाष्ये स्थिता । मनायीति ॥ यद्वै किञ्च मनुरवदत्' इत्यादौ मनुशब्दो 'ञ्नित्यादिर्नित्यम्’ इति आद्युदात्तः । “धान्ये नित् इत्यतो निदित्यनुवृत्तौ ‘शूस्वृन्निह’ इत्यादिना मनेरुप्रत्यविधेः । ततश्च शिष्टस्वरेण नकारादुकारः अनुदात्तः, तस्य स्थाने उदात्त ऐकारः, तस्यायादेशः ङीप्चेति भावः । मनावीति ॥ अत्रौ कारोऽनुदात्त एव । मनुरिति ॥ ऐकारस्य औकारस्य चाभावे तत्सन्नियोगशिष्टो ङीबपि नेत्युक्तमेव । वर्णादनु ॥ वेति ङीबिति चानुवर्तते । अनुदात्तादिति वर्णादित्यस्य विशेषणम् तदन्तविधिः, तोपधादित्यपि वर्णादित्यत्रान्वेति, तकारः उपधा यस्येति विग्रहः । तकारादकार उच्चारणार्थः । वर्णादित्यस्य * स्वं रूपं शब्दस्य' इति वर्णशब्दादिति नार्थः, तोपधत्वासम्भ वात् । किन्तु वर्णवाचिनश्शब्दादित्यर्थो विवक्षितः । वर्णादित्येतत्प्रातिपदिकादित्यस्य विशेष णम्, तदन्तविधिः, त इति षष्ठी । तकारस्येत्यर्थः । न इत्यत्र नकारादकार उच्चारणार्थः, नकार इत्यर्थः । तदाह । वर्णवाचीत्यादिना ॥ तदन्तादनुपसर्जनादिति ॥ अनुपसर्जनादि त्यनुवृत्तं वर्णान्ते अन्वेति, नतु वर्णादित्यत्रेति भावः । एनी-एतेति ॥ श्रेतेत्यर्थः । एत शब्दात् ङीप्, तकारस्य नकारश्च, ङीबभावे टाबेव, नत्वन्तु न भवति, ङीपा सन्नियोगशि ष्टत्वात् । एतशब्दश्वेतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामिभवस्वामिरुद्रदत्तप्रभृतयो याज्ञिकाः । रोहिणी-रोहितेति ॥ रोहितशब्दो रक्तवर्णपर्यायः । ङीपि णत्वे रोहि णीति, तदभाव टाप् । अनुदात्तान्तत्वं गमयितुमाह । वर्णानामिति ॥ तान्तेत्यत्र तकारादकार उच्चारणार्थः । त, ण, ति, नि, तू इत्यन्तानां आदिरुदात्त इत्यर्थः । एत शाणः, शितिः, पृश्रिः, पृषत् इति क्रमेणोदाहरणानि । प्रकृते एतशब्दे एकारस्य रोहितशब्दे ओकारस्य चोदात्तत्वे * अनुदात्तं पदमेकवर्जम्' इति शिष्टस्वरेण अवशिष्टानामनुदात्तत्व दन्तानुदात्तत्वमित्यर्थः । ननु 'अनुपसर्जनात्' इत्यनुवृत्तस्य श्रुतवर्णविशेषणत्वमेव युक्तम् नतु तदन्तविधिलभ्यवर्णान्तविशेषणत्वमित्यत आह । त्रयेण्येति ॥ त्रीणि एतानि श्वेतानि