४९३ । पूतक्रतोरै च । (४-१-३६)
अस्य स्त्रियामै आदेशो डीप्च । * इयं त्रिसूत्री पुंयोग एवेष्यते' (वा २४४९) । पूतक्रतोः स्त्री पूतक्रतायी । “यया तु ऋतवः पूताः स्यात्पूतक्रतुरेव
४९४ । वृषाकप्यग्विकुसितकुसिदानामुदात्तः । (४-१-३७)
एषामुदात्त ऐ आदेशः स्यान्डीप्च । वृषाकपेः स्त्री वृषाकपायी । ' हरविष्णू वृषाकपी' इत्यमरः । “ वृषाकपायी श्रीगौर्योः' इति च । अग्नायी । कुसितायी-कुसिदायी । कुसिद्शब्दो ह्रस्वमध्यो न तु दीर्घमध्यः ।
४९५ । मनो रौ वा । (४-१-३८)
नित्यं सभाव इति भावः । समानः पतिरिति । अत्र सम्मानशब्द एकपर्यायः, पतिशब्दस्तु विवाहनिबन्धनभर्तृशव्दपर्यायः । वीरपत्नीति । वारः पतिर्यस्याः इति विग्रह । सपत्नया दित्वान्नत्वम् । पूतक्रतोरै च ॥ ऐ इति लुप्तप्रथमाकम् । पूतक्रतुशब्दात् स्त्रियां ङीप्स्यात् प्रकृतेरैकारोऽन्तादेशश्वत्यर्थः । इयं त्रिस्त्रूत्रीति । वार्तिकमिदम् । पूतक्रतोरित्यादिसूत्रत्रयं पुंयोगात् स्त्रियां वृत्तावेवेत्यर्थः । पूतक्रतायीति । पूतः क्रतुः चेन सः पूतक्रतुः, तस्य स्त्री त्यर्थे ङीप्, तकारादुकारस्य एकारः, तस्य आयादेश इति भावः । पुंयोगः इत्यस्य प्रयोजन माह । ययेति । वृषाकप्यग्नि ॥. ऐ चेत्यनुवर्तते । तदाह । एषामिति ॥ वृषाकपा यीति ॥ डीप् प्रकृतेरुदात्तः ऐकारेऽन्तादेशः, तस्य आयादेशः, तस्य ऐकारस्थानिकत्वात् तदाकारोऽप्युदात्त । “ अनुदात्त पदमेकवर्जम्' इति अवशिष्टानामवामनुदात्तत्वम् । उदात्त इति किम् । 'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति वृषाकपिशब्दो मध्ध्योदात्तः। “नाहमिन्द्राणि रारणसख्युर्वेृषाकपेः' इति यथा। अन्ते एकस्मिन् लघौ सति द्वयोर्वा लघ्वोस्सतोः पूर्वः बह्वच्कस्य गुरुः उदात्तस्यादिति तदर्थः। ततश्च षकारादाकारस्य उदात्तत्वे “ अनुदात्तं पदमेकवर्जम्' इत्य वशिष्टानामचामनुदात्तत्वमिति स्थितिः । तथा च पकारादिकारस्यानुदात्तत्वात् तत्स्थाने ऐकारः अनुदात्तस्स्यात् । ततश्च तदादेशभूतायादेशाकारस्याप्यनुदात्तत्वं स्यात् । अतोऽत्र उदात्तत्व विधिः । अग्नायीति ॥ * अग्निमूर्धा' इत्यादौ अग्निशब्द: अन्तोदात्तः, ततो डीप्, प्रकृतेर्रैकारो ऽन्तादेशः, स च भवन्नान्तर्यादुदात्त एव भवति । अतस्तदादेशायादेशाकारस्य उदात्तत्वसिद्धे रुदात्त इत्येतदन्निशब्दे अन्वयं न लभत, प्रयोजनाभावात् कुसितायी-कुसिद्दायीति ॥ कुसितकुसिदे अव्युत्पन्नप्रातिपदिके देवताविशेषस्य नामधेये, फिट्स्वरेणान्तोदात्ते, ततो डीप् ऐकारश्चान्तादेशः, सच भवन्नान्तर्यादुदात्त एवेति, कुसितकुसिदशब्दयोरपि उदात्त इत्यस्य नान्वय इति वृत्त्यादिग्रन्थेषु स्थितम्। अत एवाह । कुसिद्दशब्दो ह्रस्वमध्यो न तु दीर्घ मध्यः इति ॥ ह्रस्वमध्द्यत्वे हि “लघावन्ते' इति मध्द्योदात्ततया शिष्टस्वरेण दकारादकारस्या नुदात्ततया तत्स्थाने ऐकारस्यानुदात्ततया तत्स्थाने आकारस्यानुदात्तत्वापत्त्या तान्निवृत्त्यर्थे तत्रा प्युदात्तग्रहणस्यावश्यकत्वादुदाहृतवृत्त्यादिग्रन्थविरोधः स्पष्ट एवेति भावः । मनो रौ वा ॥ 7