पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात्स्त्रियां ङीष्स्यात्। कल्माषी । सारङ्गी । लघावन्ते द्वयोश्च वह्वषो गुरु:' (फि ४२) इति मध्योः दात्तावेतौ । “ अनुदात्तान्तात्' किम् । कृष्णा । कपिलां ।

४९८ । षिदौरादिभ्यश्च । (४-१-४१)

षिद्भयो गौरादिभ्यश्च डीप:स्यात् । नर्तकी । गौरी । अनडुहः स्त्रियां आम् वा' (वा ४३७८) । अनडुही--अनङ्वाही । पिप्पल्यादयश्च' (ग ४७) । आकृतिगणोऽयम् ।

४९९ । सूर्यतिप्यागस्त्यमत्रथानां य उपधायाः । (६-४-१४९)

अङ्गस्योपधायाः यस्य लोपः स्यात्स चेद्यः सूर्याद्यवय । ' मत्स्यस्य ड-याम्' (४१९८) । ' सूर्यागस्त्ययोश्छे च ङयां च' (वा ४१९९) ।


कर्बुरे ” इत्यमरः । सारङ्गीति ॥ “सारङ्गश्शवळे त्रिषु' इत्यमरः । 'फिषोऽन्त उदात्त इत्यन्तोदात्तत्वशङ्कां व्युदस्यति । लघाविति । एतत्सूत्रं वृषाकपीति व्याख्याघसरे व्या ख्यातम् । कृष्णा । कपिलेति ॥ फिट्स्वरेणान्तोदात्ताविमाविति भावः । षिद्गोरादिभ्यश्च । ष् इत् येषान्ते षित गारः आदिः येषान्ते गोरादयः, षितश्च गौररादयश्चेति द्वन्द्वः। नर्तकीति ॥ 'नृती गात्रविक्षेपे' 'शिल्पिनि ष्चुन्' 'षः प्रत्ययस्य' इति षकार इत् , हलन्त्यम्' इति नकारश्ध इत्, युवोरनाकौ इति अकादशः, लघूपधगुणः, रपरत्वम्, नर्तक शब्दात् ङीष् टापोऽपवादः, “यस्येति च' इत्यकारलोपः इति भावः । गौरीति ॥ श्वेतेत्यर्थः । फिट्स्वरेण अन्तोदात्तत्वात् ‘अन्यतो डीप्' इत्यप्राप्तेरिह विधिरिति भावः । संज्ञाशब्दो वायम् । उमा कात्यायनी गौरी” इत्यमरः । “दशवर्षा भवेद्रौरी ' इति स्मृतिः । अनडुही अनङ्वाहीति ॥ अनडुहः स्त्रीत्यर्थः । अनो वहतीति यौगिको वा । गौरादिगणे निपातनादेव डीषि आम्विकल्पः । एवञ्च * अनुडुहः स्त्रियाम् आम् वेति वक्तव्यम्' इति वार्तिकन्न कर्तव्यमिति भावः । पिप्पल्यादयश्चेति । अत्र गौर, मत्स्य, मनुष्य, श्रृङ्ग, गवय, हय, मुकय, गौतम, अनङ्वाही, अनडुही, तरुण, तलुन, श्वन्, इति पठित्वा 'पिप्पल्यादयश्च' इत्युक्ता पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही, इत्यादि पठितम् । तत्र पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वात् डीषोऽप्राप्तरिह पाठः । श्वन्शब्दस्य तु 'ऋत्रेभ्य इति डीपि प्राप्त डीषंर्थः इह पाठः । स्वरे विशेषः । आकृतिगणोऽयमिति ॥ गौरादि रित्यर्थः । पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम् । मत्स्यशब्दात् गौरादित्वात् डीषि विशेषन्दर्शयितुमाह । सूर्यतिष्यागस्त्य ॥ “ढे लोपोऽद्राः' इत्यतो लोप इत्यनुवर्तते । य इति षष्ठी, अङ्गस्येत्यधिकृतमवयवषष्ठयन्तम्, तच्च उपधायामन्वेति । अङ्गस्य उपधाभूतो यो यकारः तस्य लोपस्स्यादिति लभ्यते । सूर्यतिष्यागस्त्यमत्स्यानामित्यप्यवयवषष्ठयन्तं यकारेऽन्वेति, न त्वङ्गविशेषणम् । तदाह । अङ्गस्येत्यादिना ॥ मत्स्यस्य ङ्यामिति ॥ [स्त्रीप्रत्यय