पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३६५
बालमनोरमा ।

४८६ । दामहायनान्ताच्च । (४-१-२७)

संख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च डीप्स्यात् । दामान्ते डाप्प्रति षेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्री । अव्ययग्रहणाननु वृत्तेरुद्दामा बडबेत्यत्र डाब्रिषेधावपि पक्षे स्तः । द्विहायनी बाला । त्रिचतुभ्यां हायनस्य णत्वं वाच्यम्’ (वा ५०३८) । “ वयोवाचकस्यैव हायनस्य ङीव्णत्वं चेष्यते' (वा २४४१) । त्रिहायणी । चतुर्हयणी । वयसोऽन्यत्र द्विहायना, त्रिहायना, चतुहृायना, शाला ।

४८७ । नित्यं संज्ञाछन्दसोः । (४-१-२९)

अन्नन्ताद्वहुव्रीहेरुपधालोपिनो ङीप्स्यात्सज्ञाछन्दसोः । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्ध्नी ।

४८८ । केवलमामकभागधेयपापापरसमानार्य कृतसुमङ्गलभेषजाच्च । (४-१-३०)

एभ्यो नवभ्यो नित्यं ङीप्स्यात्संज्ञाछन्दसोः । “अथो त इन्द्रः केवली वैिश:' मामकी तनू । भागधेयी । पापी । अपरी । समानी । आर्यकृती ।


अत एव नानड्, नापि ङीष् । दामहायनान्ताच्च । सङ्खयादेः ङीप् इति चानुवर्तते तदाह । सङ्खयादेरिति ॥ अव्ययग्रहणन्तु नानुवर्तते । अस्वरितत्वादिति भावः । बहुव्रीहि विशेषणत्वादेव सिद्धे अन्तग्रहणं स्पष्टार्थम् । दामान्ते इति ॥ द्विदामन्शब्दे दामान्ते डाबुभाभ्याम्' इति डापि * अन उपधालोपिनः' इति डीपि, ‘अनो बहुव्रीहेः’ इति ङीप्प्रतिषेधे च प्राप्ते, द्विहायनीत्यत्र हायनान्ते अदन्तत्वाट्टापि प्राप्से “दामहायनान्ताच' इति वचनमित्यर्थः । द्विदास्रीति ॥ द्वे दामनी यस्याः इति विग्रहः । डीपि “अल्लोपोऽनः' इति भावः । ननु अव्ययग्रहणानुवृत्तौ किं बाधकमित्यत आह । अव्ययग्रहणेति ॥ उद्दामेति ॥ उत्क्रान्तं दाम यस्या इति विग्रहः । डान्निषेधावपीति ॥ अपिना ‘अन उपधा' इति डीप् गृह्यते । अन्ग्रहणे अनर्थकस्यापि ग्रहणात् । अथ हायनान्तस्य उदाहरति । द्विहायनी बालेति ॥ द्वौ हायनौ यस्या इति विग्रहः । अथ त्रिहायणीत्यत्र भिन्नपदत्वात् णत्वाप्राप्तावाह । त्रिचतुर्भ्यामिति । नन्वेवमपि द्विहायना शाला इत्यत्रापि ङीप् स्यात्, त्रिहायणी शालेत्यत्र तु ङीप् णत्वञ्च स्यातामित्यत आह । वयोवाचकस्येति ॥ इष्यते इति ॥ भाष्यकृतेति शेषः । केवलमामक ॥ “नित्यं संज्ञाच्छन्दसेोः' इति पूर्वसूत्रमनुवर्तते । एवञ्च अन उपधालोपिनोऽन्यतरस्याम्' इति अन्यतरस्याङ्गहणं निवृत्तम् । “सङ्खयाव्ययादेर्ङीप् इत्यतो डीबत्यनुवर्तते । तदाह । एभ्य इति ॥ केवल, मामक, भागधेय, पाप, अपर समान, आर्यकृत, सुमङ्गल, भेषज, इत्येतेभ्यो नवभ्यः इत्यर्थः । छन्दस्युदाहरति ।