पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४८३ । ऊधसोऽनङ् । (५-४-१३१)

उधोऽन्तस्य बहुव्रीहेरनङादेशः स्यात्स्रियाम् । इत्यनङिः कृते डाब्डी ब्रिषेधेषु प्राप्तेषु ।

४८४ । बहुव्रीहेरूधसो ङीष् । (४-१-२५)

ऊधोऽन्ताद्वहुव्रीहेर्ङीष् स्यात्स्त्रियाम् । कुण्डोध्नी । 'स्त्रियाम्' किम् । कुण्डोधो धैनुकम् । इहानङ्ङपि न । तद्विधौ *स्त्रियाम्' (वा ३३६७) इत्युपसख्यानात् ।

४८५ । सङ्खयाव्ययादेर्ङीप् । (४-१-२६)

ङीषोऽपवादः। द्वयूध्नी । अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ।


कुण्डोधस्शब्दः। तत्र विशेषमाह । ऊधसोऽनङ् ॥ 'बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतो बहुव्रीहावित्यनुवृत्तं षष्ठया विपरिणम्यते, ऊधसः इत्यनेन विशेष्यते, तदन्तविधिः । तदाह । उधोऽन्तस्येति ॥ समासान्तप्रकरणस्थत्वेऽपि ङित्त्वादस्यादेशत्वं बोध्द्यम् । इत्यनडिः कृते इति ॥ अनङि ङकार इत्, अकार उच्चारणार्थ ङिच्च इत्यन्त्यस्य सकारस्य अन् पररूपम् कुण्डोधन् इति स्थिते सतीत्यर्थः । डाब्ङीनिषेधेष्विति ॥ 'डाबुभाभ्याम्' इति वैकल्पिके डापि 'अन उपधालोपिनः’ इति वैकल्पिके ङीपि तदुभयाभावे 'ऋत्रेभ्यः' इति प्राप्तस्य ङीपः

  • अनो बहुव्रीहेः' इति निषेधे प्राप्त इत्यर्थः । वहुव्रीहेः ॥ ऊधस इति वहुव्रीहेर्विशेषणम्

तदन्तविधिः, स्त्रियामित्यधिकृतम् । तदाह । ऊधोऽन्तादिति ॥ कुण्डोघ्नीति ॥ अनङि कृते ङीषि “ अलोपोऽनः' इति भावः । “ ऊधस्तु क्लीबमापीनम्” इत्यमरः । स्त्रियां किमिति ॥ ङीष्विधौ स्त्रियामित्यनुवृत्तिः किमर्थेति प्रश्नः । कुण्डोधो धैनुकमिति ॥ कुण्डमिव ऊधो यस्येति विग्रहः । नपुंसकत्वस्फोरणाय धैनुकमिति विशेष्यम् । धेनूनां समूह इत्यर्थः । “अछित्तहस्तिधनोष्ठक्' 'इसुसुक्तान्तात्कः' आदिवृद्धिः, क्लीबत्वं लोकात् । ङीघ्निषे धस्यतु स्वरे विशेषः फलम्। अत्र स्त्रीत्वाभावान्न ङीषित्यर्थः। ननु मास्तु ङीषु, अनङ्तु कुतो न स्यात् । समासान्तप्रकरणस्थे ऊधसोऽनङ्विधौ स्त्रियाम्' इत्यभावादित्यत आह । तद्विधाविति ॥ ऊधसोऽनड़िविधौ 'त्रियाम्' इत्युपसङ्खयानादित्यर्थः । बहुव्रीहेः किम् । ऊधः प्राप्तेति विग्रहे प्राप्तापन्ने च द्वितीयया ' इति समासे प्राप्तोधाः । सङ्खयाव्ययादेङीप् ॥ सङ्खयाव्ययादेरूधो ऽन्तात् स्त्रियां ङीप् स्यादित्यर्थः । ङीषोऽपवादः इति ॥ 'बहुव्रीहेरूधसेो डीष्’ इत्यस्या पवाद इत्यर्थः । स्वरे विशेषः । सङ्खयादेरुदाहरति । द्वयूघ्नीति ॥ द्वे ऊधसी यस्याः इति विग्रहः । अनडि ङीपि अल्लोप इति भावः । अव्ययादेरुदाहरति । अत्यूध्नीति ॥ अतिशयित मूधो यस्याः इति विग्रहः । बहुव्रीहेरित्येवेति ॥ बहुव्रीहेरित्यनुवर्तत एवेत्यर्थः । ऊधो ऽतिक्रान्तेति ॥ 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासस्य अबहुव्रीहित्वान्न ङीप् ।