पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

सुमङ्गली । भेषजी अन्यत्र केवला इत्यादि मामकग्रहणं नियमार्थम् अण्णन्तत्वादेव सिद्धे: ।तेन लोके़ऽ़ज्ञायां मामिका ।

४८९ । अन्तर्वत्पतिवतोर्नुक्(४-१-३२)

एतयोः स्त्रिया नुकस्यात् ऋन्नेभ्यो डीप्' (सू ३०६) । गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तश्शब्दस्याधिकरणशक्तिप्रधानतयास्तिसामानाधिकरण्याभावादप्राप्तो मतुन्नि पात्यतस् पतिवत्री' इत्यत्र तु वत्त्वं निपात्यते । अन्तर्वत्री । पतिवत्री प्रत्युदाहरणं तु अन्तरस्त्यस्यां शालायां घट: । पतिमती पृथिवी ।


अथोत इन्द्रः केवलीरिति ॥ मामकी तनू इति । मदीयायामित्यर्थः। युष्म दस्मदोरन्यतरस्यां खञ् च' इत्यणि 'तवकममकावकवचने' इति प्रकृतेर्ममकादेशः ।ङीप् सुपां सुलुक्' इति सप्तम्या लुक् मित्रावरुणयोर्भागधेयी स्थ।भागरूपनामभ्यो ध्यः । इति स्वार्थिको धेयप्रत्ययः। भागशब्दस्य पुलिङ्गत्वेऽपि “स्वार्थिकाः प्रकृतेः क्वचिलिङ्गवचनान्य तिवर्तन्ते' इति स्त्रीत्वम्, डीप्। तन्वस्सन्तु पापी पापमस्यास्तीत्यर्थे अर्श आद्यजन्तात् स्रीत्वे डीप्। उत वा परीभ्यो मघवा विजिग्ये। अपरशब्दः पवर्गमध्द्य समानीव आकूतिः ।” आर्यकृतीति क्वचित् वेदे अन्वेषणीयम् । एवं सुमङ्गलीति च।“सुमङ्गलीरियं वधूः इत्यत्र 'छन्दसीवनिपौ च' इति मत्वर्थे ईप्रत्यय । शिवा रुद्रस्य भेषजी' भेषज शबेदः रोग निवर्तके औषधे प्रसिद्धः । अत एव सूत्रात् स्त्रीत्वमपि । यद्वा भिषजः इयामित्यर्थे अणि इकारस्य एकारः, अत एव निपातनात् संज्ञायामप्येवमेव सर्वत्र डीबुदाहार्य संज्ञाच्छन्दो भ्यामन्यत्र तु केवला मामिका इत्यादि नन्वणन्तत्वादेव “टिडढाणञ्' इति डीपि सिद्धे मामकग्रहणं व्यर्थमित्यत आह । मामकग्रहणमिति ॥ लोके असंज्ञायाञ्च डीन्नि वृत्त्यर्थमिति भावः। एव भेषजशब्दस्य अणन्तत्वेऽपि ज्ञेयम् एतदर्थमेव वैदिकप्रक्रि यायाम् इदं नोपन्यस्तम् अन्तर्वत्पतिवतोर्नुक् । एतयोः स्त्रियां नुगिति।। कित्त्वसामर्थ्यात् अयमागमः, नतु प्रत्यय इति भावः। कित्त्वादन्तावयवः, अन्तर्वत् न्, पतिवत् न् इति स्थिते आह । ऋन्नेभ्यो ङीबिति ॥ गर्भिण्यामिति ॥ गर्भिण्याञ्जीव द्भर्तृकायाञ्च स्त्रियाम् अन्तर्वत् पतिवत् इति प्रकृतिभागौ नुक्सन्नियोगेन निपात्येत इति । वार्ति कमेतत् । कतरस्मिन् किन्निपात्यते इत्यत आह । तत्रेति ॥ तयोर्मध्ध्ये इत्यर्थः। अन्तर स्त्यस्यां गर्भः इति विग्रहे अप्राप्तो मतुप् निपात्यते इत्यन्वयः । कथमप्राप्तिर्मतुप इत्यत आह अन्तश्शब्दस्येत्यादि अभावादित्यन्तम् ॥ 'तदस्यास्त्यस्मिन्निति मतुप्’ इति सूत्रेण आस्तिसमानाधिकरणात् कर्तृकारकप्रधानप्रथमान्तात् मतुप्प्रत्ययो विहितः । यथा गौरस्यास्तीति गोमानित्यादौ । प्रकृते तु प्रथमान्तः कर्तृकारकप्रधानो गर्भशब्द एवास्तिसमानाधिकरण नतु अन्तश्शब्दः। तस्याधिकरणकारकप्रधानतया अस्तिसामानाधिकरण्यासम्भवात् । अतोऽत्र अप्राप्तो मतुन्निपात्यत इत्यर्थः। मादुपधायाश्च मतोर्वा ' इति मकारस्य वत्वे अन्तर्वत्