पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३५५
बालमनोरमा ।

टित्वादुगित्वाच्च ङीप्प्राप्तः । यासुटो ङिन्त्वेन 'लाश्रयमनुबन्धकार्य नादे शानाम्' (प ७०) इति ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनु


तु ङीबत्र दुर्वारः । अत एव च आपिशलिना प्रोक्तमधीते आपिशला ब्राह्मणीत्यत्रापि न ङीप् । तत्र हि आपिशलेिना प्रोक्तमित्यर्थे 'तेन प्रोक्तम्' इत्यणि आपिशलशब्दः । आपिशलमधीते इत्यर्थे 'तदधीते तद्वेद’ इत्यणि 'प्रोक्ताल्लुक्’ इति लुप्ते स्त्रियामदन्तत्वाट्टापि आपिशलेति रूपम् । अनुपसर्जनादित्यस्य प्रातिपदिकविशेषणत्वे प्रोक्ताणन्तस्यानुपसर्जनत्वात् स्त्रियां वर्त मानत्वाच्च अणन्तत्वनिबन्धनो ङीप् दुर्वारस्यात् । तस्य च श्रुतटिदाद्यन्वये तु प्रोक्ताणः उपसर्जनत्वान्न दोषः । अध्द्यत्रण तु लुप्तः । अणो योऽकारः इति व्याख्यानेन वर्णाश्रयतया प्रत्ययलक्षणाभावात् । नच 'स्त्रियाम्' इत्यस्य श्रुतटिदादिविशेषणत्वात् प्रोक्ताणश्च स्त्रि यामवर्तनादेव न ङीपः प्रसक्तिरिति वाच्यम् । ज्ञापिते तदन्ताविधौ प्राधान्यात् “स्त्रियाम् इत्यस्य डीप्प्रकृतिविशेणताया एव उचितत्वात् । अन्यथा अनुपसर्जनाधिकारवैयर्थ्याच्च अत एव धीवानमतिक्रान्ता अतिधीवरीत्यादि सिद्धमित्यलम् । स्यादेतत् । 'वच परिभाषणे' । अस्मात् कर्मणि लट् “लटस्सद्वा' इति तस्य शानजादेशः “स्यतासी लृलुटोः' इति स्य कुत्वषत्वे, आने मुक्, णत्वम्, टाप्, वक्ष्यमाणेति रूपम् । अत्र लृडादेशस्य स्थानिवत्त्वेन टित्वादुगित्त्वाच टिड्ढाणञ्' इति 'उगितश्च' इति च ङीप् प्राप्रोति । नच स्थानिनो लृटष्टकारस्य ऋकारस्य च इत्त्वाश्रयणात् ङीब्विधेरल्विधित्वादनल्विधाविति निषेधः शङ्कयः । “घुमास्थागापाजहातिसां हलि' इति किङिति विहितस्य ईत्त्वस्य “न ल्यपि ' इति निषेधेन लिङ्गेन अनुबन्धकार्ये अनल्विधाविति निषेधाभावज्ञापनात् । अनुबन्धकार्येऽप्यनाल्विधाविति निषेधप्रवृत्तौ हि खादेशस्य ल्यपः कित्त्वाप्रसक्तस्तस्मिन् परतः ईत्त्वस्याप्रसक्त्या तन्निषेधवैयर्थ्यं स्पष्टमेव । अतो वक्ष्यमाणेत्यत्र स्थानिवत्त्वेन शानचष्टित्वादुगित्त्वाच्च ङीप् दुर्वार इत्याशङ्कय परि हरति । वक्ष्यमाणेत्यादिना। वक्ष्यमाणेत्यत्र टित्त्वादुगित्वाच्च ङीप् प्राप्तो न भवतीत्यन्वयः । कुतो नेत्यत आह । यासुट इत्यादि ज्ञापनादित्यन्तम् ॥ *यासुट् परस्मैपदेषूदात्तेो ङिच्च इति लिङादेशानां तिप्, तस्, झि, इत्यादिपरस्मैपदानां यासुडागमस्य ङित्वं विहितम् । “यदा गमाः' इति न्यायेन यासुडागमो लिङादेशावयवः । ततश्च स्थानिवत्वेनैव ङित्वसिद्धेर्यासुट स्तद्विधिवैयर्थ्यं स्यात् । अतः 'लाश्रयमनुबन्धकार्यमादेशानान्न' इति विज्ञायते । ततश्च वक्ष्य माणेत्यत्र लृडादेशस्य शानचः टिदुगित्कार्ये ङीपि कर्तव्ये स्थानिवत्त्वाभावान्न ङीबित्यर्थः । ननु 'लाश्रयमनुबन्धकार्यमादेशानान्न' इति ज्ञापनेऽपि बूतादित्यत्र 'बुव ईट्' इति पिति तिपि परतो विधीयमान ईडागमो दुर्वारः । तस्य तिबाश्रयत्वेऽपि लाश्रयत्वाभावेन तस्मिन् कर्तव्ये तातङः स्थानिवत्त्वेन पित्त्वस्य निर्बाधत्वादित्यस्वरसादाह । श्र्नः शानचः इति ॥ श्र्ना इत्यस्मात् षष्ठयेकवचने आल्लोपे श्र्न इति रूपम् । “ धातोः' इत्यत्र आत इति योगविभा

गमाश्रित्य अधातोरपि कृचिदाल्लोपाभ्युपगमात् । 'हलश्श्शानज्झौ' इति श्र्वनाप्रत्ययस्य शान जादेशो विधीयते । तत्र स्थानिवत्वेनैव सिद्धत्वात् शानचाशित्त्वं व्यर्थम् । नचानल्विधाविति