सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

अधिकारोऽयम् । 'यूनस्ति:’ (सू ५३१) इत्यभिव्याप्य । अयमेव स्त्री प्रत्ययेषु तदन्तविधिं ज्ञापयति ।

४७० । टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ।(४-१-१५)

अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । नदट्-नदी। उपसर्जनत्वान्नेह । बहुकुरुचरा । वक्ष्यमाणेत्यत्र


उत्तरावधिमाह । यूनस्तिरित्यभिव्याप्येति ॥ 'यूनस्तिः' इत्यत्राप्ययमधिकार , नतु तत प्रागित्यर्थः । अत्र च व्याख्यानमेव शरणम् । अत्र यद्वक्तव्यन्तत् ‘यूनस्ति:’ इत्यत्र वक्ष्यते । ननु बहवः कुरुचराः यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अतिनदा, इत्यादिषु उपसर्जनेषु कुरुचर नदादिशब्देभ्यः 'टिड्ढाणञ्' इत्यादिना विधीयमानानां डीबादिप्रत्यानां प्रसक्तिरेव नास्ति । समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तस्मादनुपसर्जनाधिकारो व्यर्थ इत्यत आह । अय मेवेति । अनुपसर्जनादित्यधिकार एवायं स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयतीत्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्फलन्तु “वनो र च' इत्यत्र वन्नन्तान्तलाभ इत्यादि ज्ञेयम् । ननु स्त्रीप्रत्ययेषु तदन्तविच्द्यभावेऽपि नद इवाचरति नदा स्त्री इत्यादिषु आचारक्विबन्तप्रकृतिककर्तृक्विबिन्तेषु ढीवादिनिवृत्तये अनुपसर्जनाधिकारस्यावश्यकत्वात् कथन्तस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञाप कतेति चेन्न । अनुपसर्जनाधिकारस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापनार्थत्वपरभाष्यप्रामाण्येन स्त्रियामाचारक्विबन्तप्रकृतिककर्तृक्विबन्तानामनभिधानोन्नयनादित्यलम् । टिड्ढाणञ् ॥ टित् ढ अण अञ् द्वयसच् दघ्रच् मात्रच् तयप् ठक् ठञ् कञ्, क्नरप्, एषा द्वा दशानां समाहारद्वन्द्वात् पञ्चम्येकवचनम् । ढादयः एकादश प्रत्ययाः । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । टित्तु प्रत्ययः अप्रत्ययश्च । टिदादिभिश्च प्रातिपदिकादित्यधिकृतं विशेष्यते, विशेषणत्वात् तदन्तविधिः । ततश्च टेिदन्तात् ढाणादिप्रत्ययान्ताञ्च प्रातिपदिकादिति लभ्यते । “अजाद्यतष्टाप्’ इत्यस्मादतः इत्यनुवृत्तम्, तेनापि प्रातिपदिकं विशेष्यते । तदन्त विधिः, “अनुपसर्जनात्' इत्येतत् श्रुतेषु टिदादिष्वेवान्वेति, नतु तदन्तेषु । स्त्रियामित्यधि कृतम् । तदाह । अनुपसर्जनं यट्टिदादीत्यादिना । तदन्तमिति ॥ टिदन्तं ढादि प्रत्ययान्तान्तच्चेत्यर्थः । टित त्रिविधः । प्रत्ययः, । प्रातिपदिकम्., धातुश्च । तत्राद्यमुदाहरति कुरुचरीति ॥ कुरुषु चरतीति अधिकरणे उपपदे 'चरेष्टः' इति कर्तरि टः । टकार इत्, उपपदसमासः । नच प्रत्ययस्यैवात्र टित्वात् प्रत्ययग्रहणपरिभाषया चरेत्येव टिदन्तम् , नतु कुरुचरशब्दः, तदादिनियमादिति वाच्यम् । नदट् देवट् इत्यादेरप्रत्ययस्यापि टितस्सत्त्वेन तत्र प्रत्ययग्रहणपरिभाषायाः अप्रवृत्तौ ‘येन विधिः' इति टिदन्तत्वस्य कुरुचरशब्दे सत्त्वात् । अथ द्वितीयं टितमुदाहरति । नदडिति ॥ पञ्चादिगणे पठितं प्रातिपदिकमेतत् । तृतीयन्तु कृदन्ते स्तनन्धयीत्युदाहरिष्यते । अनुपसर्जनत्वविशेषणस्य प्रयोजनमाह । उपसर्जनत्वा न्नेहेति ॥ बहुकुरुचरेति ॥ बहव: कुरुचराः यस्यामिति विग्रहः । बहुव्रीहिरयमन्यपदार्थ प्रधानः । ततश्च टितः टप्रत्ययस्य उपसर्जनत्वान्न ङीप्। अनुपसर्जनत्वस्य प्रातिपदिकविशेषणत्वे