४६७ । अभाषितपुंस्काच्च । (७-३-४८)
एतस्माद्विहितस्य आत: स्थाने अत इद्वा स्यात् । गङ्गका-गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता खट्टा अखट्टिका । शैषिके कपि तु विकल्प एव ।
४६८ । आदाचार्याणाम् । (७-३-४९)
पूर्वेसूत्रविषये आद्वा स्यात् । गङ्गाका । उक्तपुंस्कात्तु शुभ्रिका ।
४६९ । अनुपसर्जनात् । (४-१-१४)
इंत्त्वविकल्पः इति भावः । द्वके-द्विके इति ॥ अकचि द्वकिशब्दात् स्त्रियामौङि, त्यदाद्यत्वम् पररूपम्, टाप्, इत्वविकल्पः, औडश्शी, आद्गुणः । निःस्वका-निःस्विकेति ॥ स्वस्या निष्कान्तेति विग्रह * निरादयः’ इति समास उपसर्जनहूस्वः, टाप्, सुपि कः, सुब्लुक् कप्रत्ययान्तात् पुनष्टापि सवर्णदीर्घः, इत्त्वविकल्प इति भाव अभाषितपुंस्काञ्च उद चामातस्थाने' इत्यनुवर्तते, अत इदिति च अभाषितः पुमान् येनेति विग्रहः । विहितस्ये त्यध्द्याहार्यम् । तदाह । एतस्मादिति ॥ अभाषितपुंस्कादित्यर्थः । अयकपूर्वार्थ वचनम्। गङ्गका गङ्गिकेति ।। गङ्गाशब्दात् कः। * केऽणः' इति ह्रस्वः, इत्त्वविक।ल्पः । विहितविशे षणस्य फलमाह । बहुव्रीहेरिति अविद्यमाना खट्वा यस्या इति विग्रहे 'नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहौ कृते, विद्यमानपदलोपे नो नलोपे 'शेषाद्विभाषा इति कबभावपक्षे, गोस्त्रियोः' इति हृस्वे अखट्वशब्दात् टापि, सुपि, अज्ञातादौ के, सुब्लुकि केऽणः’ इति हूस्वे, पुनष्टापि अभाषितपुंस्काद्विहितस्य आतस्थाने अतः अभावान्नेत्वाविकल्प किंतु 'प्रत्ययस्थात्' इति नित्यमित्वमित्यर्थः । अभाषितपुंस्कात् परस्येति व्याख्याने तु तादृशखट्व शब्दात् परस्य आतस्थाने अतस्सत्त्वादित्वविकल्पस्यादिति भावः । शैषिके कपि त्विति न स् खट्वा सू इत्यवस्थायां कपि, सुब्लुक्। प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात् ‘नञोऽस्त्यर्था नाम्' इति बहुव्रीहिसमासः । समासान्तः इत्यन्वर्थसंज्ञाबलात् कबन्तस्यैव समासत्वम् । ततश्च अखट्वाकशब्दे अखट्वा इत्यंशस्य उपसर्जनस्त्रीप्रत्ययान्तसमासरूपप्राति पदिकत्वाभावात् ‘गोस्त्रियो इति हूस्वो न भवति । नापि “केऽणः’ इति स्व न कपि' इति निषेधात् । किन्तु आपोऽन्यतरस्याम्' इति हूस्वविकल्पः । तत्र खट्वाशब्दात् विहितस्य कपः प्राग्वर्तिनः टापः अभाषितपुंस्काद्विहितत्वेन तत्स्थानिकह्रस्वाकारस्य अयम् इत्त्वविकल्पो भवत्येवेत्यर्थः।आपोड न्यतरस्याम्' इति हूस्वाभावपक्षे तु अखट्वाकेत्येव बोध्द्यम् । आदाचार्याणाम् ॥ पूर्वसूत्र विषय इत अभाषितपुंस्काद्विहितस्यातस्थाने अत इत्यर्थः । शुभ्रिकेति ॥ शुभ्रशब्दो विशेष्यनिघ्नः अनियतलिङ्गः, ततः स्त्रियां टापि, शुभ्राशब्दात् कः “केऽणः’ इति ह्रस्व पुनष्टाप् । अत्र कात्पूर्ववर्तिनष्टापः अभाषितपुंस्काद्विहितत्वाभावात् तत्स्थानिकस्यातो नेत्त्व विकल्पः । किन्तु 'प्रत्ययस्थात्' इति नित्यमित्वमित्यर्थः। अनुपसर्जनादित्यधिकारस्य