पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

नीभूतस्तु कप्रत्ययान्तत्वाद्भवत्युदाहरणम् । एवं चात्मीयायां स्विका । परम स्विकेति नित्यमेवेत्त्वम् । निर्भस्त्रका-निर्भस्त्रिका एषका-एषिका । कृत षत्वनिर्देशान्नेह विकल्पः एतिके-एतिकाः।अजका-अजिका । ज्ञकाः ज्ञिका । द्वके-द्विके । नि:स्वका-नि:स्विका


अतस्तदकारस्य आतःस्थानिकत्वाभावान्न प्रकृतसूत्रेणेत्त्वविकल्पशङ्का, किन्तु 'प्रत्ययस्थात् इति नित्यमेव इत्वमित्यर्थः। ननु स्वशब्दस्य आत्मात्मीयज्ञातिधनवाचिनः आत्मीयाया मुदाहरणत्वाभावेऽपि आत्मज्ञातिधनवाचिनस्तस्य उदाहरणत्वसम्भचात् स्वशब्दग्रहणं संज्ञो पसर्जनार्थमित्यनुपपन्नमित्यत अाह अर्थान्तरे तु न स्त्री इति आत्मज्ञाति धनेषु स्वशब्दो न स्त्रीलिङ्ग। उदाहृतकोशरीत्या आत्मज्ञातिवा चिनस्वशब्दस्य नित्यपुलिङ्ग त्वात् धनवाचिनस्तस्य पुन्नपुंसकलिङ्गत्वाचेत्यर्थः। तथाच टापि परे इत्त्वस्याभावान्नोदाहर णत्वप्रसक्त्तिः ।प्रत्ययस्थातू' इत्यतः आबित्यनुवृत्तेरिति भावः। इदमुपलक्षणम् । आत्मनि वाच्ये स्वशब्दस्य सर्वनामत्वेन अकजर्हतया तदकारस्य आत्स्थानिकत्वाभावाच्चेत्यपि द्रष्टव्यम् ननु संज्ञोपसर्जनीभूतस्यापि स्वशब्दस्य कथमुदाहरणत्वं, तस्याप्यकचि तदकारस्य आत्स्थानि कत्वाभावादित्यत आह।सज्ञोपसर्जनीभूतस्त्विति ॥संज्ञोपसर्जनीभूतस्य स्वशब्दस्य असर्वनामतया अकजनर्हत्वेन स्वाशब्दात् सुबन्तात् स्वार्थिके कप्रत्यये, सुब्लुकि, पुनष्टापि केऽणः’ इति हूस्वापन्नस्य अतः आत्स्थानिकतया भवत्युदाहरणत्वमित्यर्थः । नचान्तर्वर्तिसुप परष्टाबिति शङ्कयम्, केन व्यवधानादिति भावः। तदेवं “भस्त्रैषा' इत्यत्र आतः स्थाने इत्यनुवृत्तस्य स्वशब्देऽन्वयलाभात् स्वशब्दावयवस्य आत्स्थानिकस्य अत इद्धा स्यादिति लब्धम्, तस्य प्रयोजनमाह । एवञ्चेति॥ उक्तरीत्या स्वशब्दे आत्स्थानिकस्यैव अत इत्त्वविकल्पलाभादात्मीयायां स्वशब्दस्य सर्वनामत्वादकचि, तदकारस्य आत्स्थानिकत्वाभावा दित्वविकल्पाप्रवृत्तौ, “प्रत्ययस्थात्' इति नित्यमेवेत्त्वमित्यर्थः। तदेवं प्रत्युदाहरणान्युका उदा हरणान्याह । निर्भस्रकेत्यादि । भस्राया निष्क्रान्तेति विग्रहे 'निरादयः कान्ताद्यर्थे' इति समासे गोस्त्रियोः' इति हृस्वत्वे, पुनष्टापि, समासात् सौ, कप्रत्यये केऽणः' इति हृस्वे निर्भस्रकशब्दात् पुनष्टापि, सवर्णदीर्घ, निर्भस्रकाशब्द तत्र 'प्रत्ययस्थात्' इति नित्यमित्वे प्राप्त अनेन इत्वविकल्पे निर्भस्त्रिका निर्भस्रकेति रूपद्वयम् । केन व्यवधानान्न सुपः परष्टाबिति भावः । एषका। एषिकेति ॥ अकचि एतकद्शब्दात् सुः । ‘तदोस्सस्सौ' इति सत्वम्, षत्वम्, त्यदाद्यत्वम् पररूपम् टाप् प्रत्ययस्थात्' इति नित्यमित्वं बाधित्वा इत्त्वविकल्प इति भावः । ननु अकवि एतकद्शब्दात् स्त्रियामौजसादिषु एतिके एतिकाः इत्यादौ नित्यमित्त्व ध्यते । तद्वाधित्वा अनेन इत्त्वविकल्पस्यादित्यत आह । कृतषत्वेति ॥ ‘भस्त्रैतज्ज्ञास्वा' इति वक्तव्ये एषेति कृतषत्वनिर्देशात् औजसादिषु षत्वाभावान्नेत्वविकल्प इत्यर्थः । अजका-अजिकेति ॥ अजाशब्दात् कः, ह्रस्वः, पुनष्टाप्, सवर्णदीर्घः, इत्त्वविकल्पः । ज्ञका-ज्ञिकेति ज्ञाधातोः ‘इगुपधज्ञाप्रीकिरः कः’ इति कः ‘आतो लोप इटि च' इत्याल्लोपः । स्त्रियामदन्तत्वाट्टाप् सवर्णदीर्घ ज्ञाशब्दातू सुबन्तात् कः, सुब्लुक्, “केऽणः' इति ह्रस्वः, पुनष्टाप्, सवर्णदीर्घ