पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

बन्धकार्येऽप्यनाल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी-ऊरुद्दनी-ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । याद्यः शी । इत्वरी । “ताच्छीलिके णेऽपि ' (प ६८) । चौरी । * नञ्स्रञ्जीकक्ख्र्युं


निषेधश्शङ्कयः । “न ल्यपि' इति लिङ्गेन अनुबन्धकार्ये अनात्विधाविति निषेधाभावस्यानुपद मेवोक्तत्वात् । एवञ्च क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेधप्रवृत्तिर्विज्ञायते । तथाच वक्ष्यमाणेत्यत्र टिदुगित्कार्ये : अनल्विधौ ' इति निषेधप्रवृत्त्या स्थानिवत्त्वाभावेन टित्त्त्वोगित्व योरभावात् न ङीबित्यर्थः । वस्तुतस्तु “लाश्रयमनुबन्धकार्यन्नादेशानाम्' इत्यत्र यासुटो ङीत्त्वं न ज्ञापकम् । तस्य तिप्सिब्मिबर्थत्वात् । नहि लिङादेशत्वेऽपि तिपसिब्मिपां डित्वं स्थानिवत्त्व लभ्यम् । ‘हलः श्रश्शानज्झौ' इति सूत्रे भाष्ये ‘ङीच पिन्न, पिञ्च ङीन्न' इति प्रपञ्चितत्वात् । तथा श्रश्शानचश्शित्वमपि न लिङ्गम् । तत्र शित्वस्य भाष्ये प्रत्याख्यातत्वात् । प्रत्युत शित्त्वस्य ज्ञापकत्वे “सेर्ह्यपिच्च' इति हेरपित्वस्य तातङो ङीत्वस्य च वैयर्थ्यमिति भाष्ये दूषणाभि धानाच्च । तस्मात् वक्ष्यमाणेत्यत्र ङीबेव युक्तः, टाप् त्वसाधुरेव । अजादित्वाट्टाबिति वा कथ श्चित् समाधेयभित्यास्तान्तावत् । सौपर्णेयीति ॥ सुपण्याः अपत्यं स्त्री इत्यर्थे “स्त्रीभ्यो ढक्' इति ढकि “ आयनेय्' इत्येयादेशः । 'यस्येति च' इतीकारलोपः, 'किति च' इत्यादि वृद्धिः । सौपर्णेयशब्दात् ङीप्, “यस्येति च' इत्यकारलोपः, सौपर्णेयीति रूपम् । नच 'नि रनुवन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया “ शिलाया ढ:', 'ढश्छन्दसि' इत्यनयोरेव ग्रहणमिति वाच्यम् । तयोः स्त्रियामप्रवृत्तरगत्या सानुबन्धकस्य ढस्य ग्रहणादिति भाष्ये स्पष्टम् । ऐन्द्रीति ॥ इन्द्रो देवता अस्या आमिक्षाया इति विग्रहः, “सास्य देवता इत्यणि, “यस्येति च' इत्यकारलोपः, आदिवृद्धिः, ऐन्द्रशब्दात् ङीप्, “यस्येति च' इत्य कारलोपः । इन्द्रस्येयमिति वा विग्रहः, *तस्येदम्' इत्यण् । औत्सीति ॥ “उत्सः प्रस्रवणं वारि” इत्यमरः । ऋषिविशेषो वा उत्सः । उत्सस्येयमिति विग्रहः । “उत्सादिभ्योऽञ् यस्यति च' ङीप् । उत्सस्यापत्यं स्त्री औत्सी इति तु नोदाहरणम् । जातेरित्यनुवृत्तौ ‘शार्ङ्गं रवाद्यञ्जो डीन्' इत्येव सिद्धेः । “गोत्रञ्च चरणैस्सह” इत्यपत्यप्रत्ययान्तस्य जातित्वादि त्यलम् । ऊरुडयसी-ऊरुदी-उरुमात्रीति ॥ ऊरू प्रमाणमस्या इति विग्रहः । प्रमाणे द्वयसच्दघ्नञ्मात्रचः’ ङीप् । पञ्चतयीति ॥ पञ्च अवयवा यस्या इति विग्रहः । सङ्खयाया अवयवे तयपु' ङीप् । आक्षिकीति ॥ अक्षैदीव्यतीति विग्रहः । 'तेन दीव्यति खनति जयति जितम्' इति ठक्, आदिवृद्धिः, 'ठस्येकः’, ‘यस्येति च' इत्यकारलोपः। आक्षिकशब्दात् ङीप्, “यस्येति च ' । लावणिवकीति ॥ लवणं पण्यमस्या इति विग्रहः । लवणाद्वञ्', 'ठस्येकः' आदिवृद्धिः, 'यस्येति च ’, लावणिकशब्दात् ङीप्, “यस्येति च ठेत्येव सिद्धे ठक्ठञोः पृथग्ग्रहणन्तु ठनो ञिठस्य च व्यावृत्त्यर्थम् । दण्डोऽस्त्यस्याः दण्डिका । अत इनिठनौ' काश्यां भवा काशिका 'काझ्यादिभ्यष्ठञ्ञिठौ' इति ञिठः । यादृशीति । त्यदादिषु दृशः' इति यच्छब्दे उपपदे कञ्, “आ सर्वनाम्नः' इति यच्छब्दस्याकारः ङीप्, “यस्येति च ' । इत्वरीति ॥ 'इण् गतौ' 'इण्नशिजिसर्तिभ्यः क्वरप्' 'हृस्वस्य