पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४६४ । न यासयोः । (७-३-४५)

यत्तदोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् । “त्यकनश्च निषेधः' (वा ४५२६) । उपत्यका । अधित्यका । * आशिषि वुनश्च न ' (वा ४५२८) । जीवका । भवका । “उत्तरपदलोपे न’ (वा ४५२९) । देव दत्तिका-देवका । * क्षिपकादीनां च न' (चा ४५३०) । क्षिपका । ध्रुवका । कन्यका । चटका । “ तारका ज्योतिषि' (वा ४५३१) । अन्यत्र तारिका ।


टाप् । न यासयोः ॥ नात्र कृतटापोः प्रथमान्तयोर्निर्देशः। यत्तदोरित्येव विवक्षितमिति भाष्ये स्पष्टम् । 'प्रत्ययस्थात्' इत्यतः अत इति, इदिति चानुवर्तते । • तदाह । यत्तदोरिति ॥ यका । सका इति ॥ * अव्ययसर्वनाम्नाम्' इति यत्तच्छब्दयोष्टेः प्रागकवि सौ त्यदाद्यत्वं पररूपं, टाप्, हल्डयादिना सुलोपः, तच्छब्दे 'तदोस्सस्सौ' इति तकारस्य सकारः । उभयत्रापि “प्रत्ययस्थात्' इति प्राप्तमित्त्वमत्र सूत्रे निषिध्द्यते । अथ “न यासयोः' इत्यस्य प्रथमान्तानुकरणत्वे किं बाधकमित्यत आह । यकाम् । तकामिति । त्यकनश्च निषेधः इति ॥ त्यकन्प्रत्ययान्तस्यापि *प्रत्ययस्थात्' इति इत्त्वप्रतिषेधो वक्तव्य इत्यर्थः । उपत्यका । आधित्यकेति । “उपाधिभ्यां त्यकन्नासन्नारूढयोः' इति त्यकन्, टाप्, सोर्हल्डयादिलोप- । उपत्यकाद्रेरासन्ना भूमिरूध्र्वमधित्यका' इत्यमरः । ननु त्यकन्विधौ अकारस्य उच्चारणसामर्थ्यादेव इत्त्वन्न भवति । अन्यथा त्यिकनमेव विदध्द्यात्, अतः किं तन्निषेधेनेति चेत्, मैवम् । पञ्चोपत्यको ग्राम इत्यत्र अकारश्रवणार्थत्वादित्यलम्। आशिषीति ॥ आशिषि यो वुन् तस्य योऽयमकादेशः तदकारस्य 'प्रत्ययस्थात्' इति इत्त्वन्नेति वक्तव्यमित्यर्थः । जीवका । भवकेति ॥ जीवतात् भवतादित्यर्थे जीवधातोः भूधातोश्च ‘आशिषि च' इति वुन्, “युवेरनाकौ' इति तस्य अकादेश सार्वधातुकार्धधातुकयोः' इति भूधातोरूकारस्य गुणः अवादेशश्च । उत्तरपदेति ॥ उत्तरपद लोपेऽपि इत्वन्नेति वक्तव्यमित्यर्थः । देवकेति ॥ देवदत्तशब्दात् स्वार्थे कः ठाजादावृर्ध्वं द्विती यादचः ‘अनजादौ च विभाषा लोपो वक्तव्यः’ इति दत्तशब्दलोपः । देवकशब्दातू टापु । देवद तिकेति तु दत्तपदस्य लोपाभिव्यक्तये उपन्यस्तम् । क्षिपकादीनाञ्चेति ॥ क्षिपकादिशब्दा नामित्त्वन्नेति वक्तव्यमित्यर्थः । क्षिपकादिगणं पठति । क्षिपकेति ॥ 'क्षिप प्रेरणे' 'इगुपधज्ञाप्री किरः कः' कित्त्वान्न लघूपधगुणः, क्षिपाशब्दात् स्वार्थे कः, ‘केऽणः’ इति हृस्वः, पुनष्टाप् । ध्रुवकेति ।f ‘ध्रुव स्थैर्ये' कुटादिः, क्षिपकेतिवदूपम् । यद्वा ' ध्रु स्थैर्ये' पचाद्यच् “गाड् कुटादिभ्यः' इति डित्वान्न गुणः, उवङ्, ध्रुवशब्दात् टाप्, ततः स्वार्थिकः कः, 'केऽणः इति ह्रस्वः, पुनष्टाप् । कन्यकेति ॥ कन्याशब्दात् कः, 'केऽणः’ इति ड्रस्वः, पुनष्टाप् । चटकेति ॥ ‘चवट भेदने' पञ्चाद्यच् , स्वार्थे कः, ‘केऽणः’ इति ह्रस्वः, पुनष्टाप् । क्षिपकादिराकृः तिगणः । तेन अळका इष्टका इत्यादि । तारका ज्योतिषीति ॥ वार्तिकमिदम् । ज्योतिषिः वाच्ये तारकेति भवति इत्त्वन्न भवतीति यावत् “तृ अवनतरणयोः' ण्वुल्, अकादेशः, ऋकारस्य वृद्धिः, रपरत्वं, टाप् । ज्योतिरित्यनेन नक्षत्रम् अक्ष्णः कनीनिका च विवक्षितम् । “नक्षत्र