पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३४५
बालमनोरमा

किम् । शक्रोतीति, शका । “ असुपः' किम् । बहुपरिव्राजका नगरी । “कात् किम्, नन्दना । “पूर्वस्य' किम्। परस्य मा भूत् । कटुका । अत इति तपरः किम् । राका । “आपि' किम् । कारकः । *मामकनरकयोरुपसङ्ख-यानम् (वा ४५२४)। मामिका। नरान्कायतीति, नरिका । ‘त्यक्त्यपोश्च' (वा ४५२५) दाक्षिणात्यिका । इहत्यिका ।


तत्र प्रत्ययस्थककाराभावेन इत्त्वस्याप्राप्ते किन्तन्निषेधनेनत्यलम् । नौकेति ॥ नौशब्दात् स्वार्थिकः कः, टाप्। अत्र ककारात् पूर्वस्य औकारस्य इतत्त्वनिवृत्त्यर्थमत इति वचनम्। शकेति। शक्लृ शक्तौ' पचाद्यच्, टाप् । अत्र ककारस्य धात्ववयवस्य प्रत्ययस्थत्वाभावान्न ततः पूर्वस्य इत्वम् । बहुपरित्राजकेति । परिपूर्वाद्रूजेः ण्वुल्। बहवः परिव्राजकाः यस्यामिति बहुव्रीहिः । सुपो लुकि बहुपरिव्राजकशब्दात् टाप् । अत्राकारस्य कात्पूर्वस्य इत्त्वन्न । प्रत्ययलक्षणेन आप सुबपेक्षया परत्वात् । ‘न लुमता' इति निषेधस्तु न । तस्य लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव प्रवृत्तेः । इत्वन्तु टाप्यनाङ्गकार्यमिति नात्र तन्निषेधः । यदि तु ' असुपः' इति पर्युदास आश्रीयेत, तर्हि बहुपरिव्राजक इति समुदायस्य सुवभिन्नत्वादापः ततः परत्वादित्वं दुर्वारं स्या दिति भावः । पूर्वस्य किमिति । एकादेशे कृते परस्थ हूस्वस्याभावात् पूर्वस्येत्यर्थसिद्धमिति प्रश्रः । कटुकेति । कटुशब्दात् स्वार्थे कः, टाप्, सवर्णदीर्घः । पूर्वस्येत्यनुक्तौ अत्र सवर्ण दीर्घत पूर्व वाणर्णादाङ्गस्य बलीयस्त्वादपवादत्वाच्च द्वितीयककारादुत्तरस्य अकारस्य आपि परे इत्त्वं स्यादिति भावः । अत इति तपरः किम् । रावका इति ॥ *कृदाधारार्चिकलिभ्यः कः' इति राधातोः औणादिकः कप्रत्ययः “उणादयो बहुळम्' इति बहुळग्रहणात् 'केऽणः’ इति हूस्वो न । ककारस्य च नेत्वं, टाप्, स्त्रीत्वं लोकात् । 'कलाहीने सानुमतिः पूर्णे राका निशाकरे' इत्यमरः । अत्र ककारात् पूर्वस्य दीर्घाकारत्वान्नेत्त्वमिति भावः । मामकेति ॥ मामकनरकशब्दयोः का त्पूर्वस्य इत्वं वक्तव्यमित्यर्थः । मामिकेति ॥ ममेयमिति विग्रहे 'युष्मदस्मदोरन्यतरस्यां खञ् च' इत्यणि, “तवकममकावेकवचने' इति ममकादेशे, आदिवृद्धिः, टाप्, “टिड्ढाणञ्' इत्या दिना डीप्तु न 'केवलमामक' इत्यादिना संज्ञाच्छन्दसोरेव मामकशब्दातू ङीब्नियमात् । ततश्चात्र ककारस्य प्रत्ययस्थत्वाभावात् 'प्रत्ययस्थात्’ इत्यप्राप्तौ वचनमिदम् । नरानिति ॥ कैशब्दे आदेच उपदेशे' इत्यात्वे, ‘आतोऽनुपसर्गे क:’ इति कप्रत्यये ‘आतो लोप इटि च' इति आलोपः उपपदसमासः, सुपो लुक्, टाप्। अत्रापि ककारस्य प्रत्ययस्थत्वाभावात् ‘प्रत्ययस्थात्’ इत्यप्राप्तौ वचनम् । त्यक्तयपोश्चेति । त्यगन्ते त्यबन्ते च प्रत्ययस्थात्कात्पूर्वस्याकारस्य इत्वं वक्तव्यमि त्यर्थः । “उदीचामातस्थाने' इति विकल्पस्यापवादः । दाक्षिणात्यिकेति । दक्षिणस्यान्दिशि अदूरे इति विग्रहे ‘दक्षिणादाच्’ इत्याच्, ‘तद्धितश्चासर्वविभक्तिः’ इत्यव्यत्वम्। दक्षिणाशब्दात् भवाद्यर्थे “दक्षिणापश्चात्पुरसस्त्यक्' इति त्यक् किति च' इत्यादिवृद्धिः, दा टाप् । ततः स्वार्थिकः कः, 'केऽणः' इति टापो ह्रस्वः, पुनष्टाप्, इत्वमिति भावः । “दक्षिणस्यां दिशि भवेति विग्रहे दक्षिणाशब्दात् टाबन्तादेव त्यकन्” इति तु प्रौढमनोरमायां दूषितम् । इहत्यिकेति । “अव्ययात्त्यप्' इति त्यप्, टापू, स्वार्थिकः कः, 'केऽणः' इति हृस्वः, पुनः