पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३४७
बालमनोरमा ।

'वर्णका तान्तवे' (४५३२) । अन्यत्र वर्णिका । “ वर्तका शकुनो प्राचाम् (वा ४५३३) । उदीचां तु वर्तिका । “अष्टका पितृदेवत्ये' (वा ४५३४) । अष्टिकान्या । “ सूतकापुत्रिकाबृन्दारकाणां वेति वक्तव्यम्’ (वा ४५३५) । इह वा अ इति छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीनः


मृक्षम्भन्तारं तारकापि ” “तारकाक्ष्णः कनीनिका ?” इति चामरः । अन्यत्रेति ॥ ज्योति षोऽन्यत्र वाच्ये तारिकेत्येव भवतीत्यर्थः । वर्णका तान्तव इति ॥ इदमपि वार्तिकम् । तान्तवे गम्ये वर्णकेति भवति, इत्वन्नेत्यर्थः । तन्तूनां विकारस्तान्तवम्।* ओरञ् वर्णकेति प्रावार विशेषः । 'वर्ण वर्णक्रियाविस्तारगुणवचनेषु' चुरादिः । ण्यन्तात् ण्वुल्, अकादेशः, णिलोपः टाप् । अन्यत्रेति ॥ तान्तवादन्यत्र वर्णिकेति इत्वमित्यर्थः । बर्णिका स्तोत्रीत्यर्थः । वर्णिकेति ग्रन्थविशेषस्य संज्ञा वा । वर्तका शकुनौ प्राचामिति ॥ इदमपि वार्तिकम् । शकुनिः पक्षी, तत्र गम्ये प्राचाम्मते वर्तकेति भवति, इत्त्वं न भवतीत्यर्थः । प्राचांग्रहणस्य प्रयोजन माह । उदीचां त्विति ॥ उदीचाम्मते तु शकुनौ गम्य वर्तिकेति इत्त्वं भवतीत्यर्थः । वर्तयतेर्ण्वुल्, अकादेशः, णिलोपः, स्वार्थे कः, टाप् । 'कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादय इत्यमरः । शकुनेरन्यत्र तु नित्यमेवेत्त्वम् । अष्टका पितृदेवत्ये इति ॥ इदमपि वार्ति कम्। पितरश्च ता देवताश्च पितृदेवताः तदर्थं, पितृदेवत्यम् “देवतान्तात् तादर्थ्यें यत्' इति यत्। पित्रर्थे कर्मणि वाच्ये अष्टकेति भवति ‘प्रत्ययस्थात्’ इति इत्त्वन्नेत्यर्थः । अश्रन्ति पित्रर्थे ब्राह्मणा यस्यामिति विग्रहे “ अश भोजने' इत्यस्मात् ‘इष्याशिभ्यान्तकन्’ इति तकन् प्रत्ययः, “त्रश्च आदिना शस्य षः, तकारस्य ष्टुत्वेन टः, अष्टकशब्दात् टाप् । अष्टिकान्येति ॥ अष्टौ अध्द्यायाः परिमाणमस्या अष्टिका पाणिनीयाष्टाद्यायी, “सङ्खयायाः अतिशदन्तायाः कन्’ इति सूत्रेण अष्टौ इति सुबन्तात् कन्प्रत्ययः । सुबन्तात्तद्धितोत्पत्तेः सिद्धान्तयिष्यमाणत्वात् । ततस्तद्धितान्तत्वेन प्रातिपदिकत्वात् “सुपो धातुप्रातिपदिकयोः' इति जसो लुकि निमित्तापायात् अष्टन आत्वनिवृत्तौ अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नकारलोपे, अष्टकशब्दात्, टापि 'प्रत्ययस्थात्' इति इत्त्वं भवत्येव । नचान्तर्वर्तिसुपः परत्वं टापश्शङ्कयम् । अकारेण व्यवधानात् । असुपः इत्यस्य बहुपरिव्राजका नगरी इत्यत्र अव्यवहिते सुपः परे टापि चरितार्थत्वात् । अत एव “क्षिपकादी नान्न' इति निषेधोऽर्थवान् । अन्यथा क्षिपाशब्दात् सुबन्तात् स्वार्थिके कप्रत्यये सुपो लुकि अन्तर्वर्तिनीं विभक्तिमाश्रित्य टापस्सुबपेक्षया परत्वादसुपः इति निषेधसिद्धेः किं तेनेत्यलम् । 'वा सूतकापुत्रिकावृन्दारकाणाम्' इति वार्तिकमर्थतः पठति । सूतकेति । अत्र पुत्रिका शब्दः इकारमध्यः नत्वकारमध्द्यः । स्त्रियां पुत्रशब्दस्य शार्ङ्गरवादित्वेन ङीनन्तत्वादित्रि कैयटः । अत्रेत्वविकल्पभ्रमं वारयति । इह वा अ इति ॥ सवर्णदीर्घे सति वा इति निर्देश इति भावः । अत्र अ इति लुप्तप्रथमाकं कात्पूर्वस्येत्यनुवर्तते, अत इति निवृत्तम्, पुत्रिकाशब्दे अतोऽभावात् । तदाह । कात्पूर्वस्येति ॥ नन्वत्र इत्त्वविकल्प एव कुतो न विधीयत इत्यत आह । तेनेति ॥ अत्वविधानेनेत्यर्थः । पुत्रशब्दात् शार्ङ्गरवादत्वात् ङीनि स्वार्थिके कप्रत्यये केऽणः' इति हूस्वे, टापि, पुत्रिकाशब्दः । अत्र इकारस्य इत्त्वविकल्पविधौ पुत्रिका-पुत्रीकेति