पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९०
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

६९२ । तृतीया तत्कृतार्थेन गुणवचनेन । (२-१-३०)

'तत्कृत-' इति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवच नेनार्थशब्देन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । “तत्कृत-' इति किम् । अक्ष्णा काणः ।


द्वितीयान्तास्सुपा वा समस्यन्त इति लभ्यत इत्यर्थः । ननु 'काला:’ इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । अक्तान्तार्थमिति । अत्र त्तेनेति निवृत्तमिति भावः । मुहूर्त सुखमिति ॥ अत्यन्तसंयोगे द्वितीया । मुहूर्तव्यापि सुखमित्यर्थः । तृतीया तत्कृत ॥ तत्कृतेत्यस्याव्यवहितमप्यर्थेनेति परित्यज्य गुणवचनेनेत्यत्रान्वयं वक्तुमाह । तत्कृतेति लुप्ततृतीयाकमिति । तत्र तृतीयेत्यनेन तृतीयान्तं विवक्षितम् । “तत्कृतेति लुप्ततृतीयाकं भिन्नं पदम् । तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते । तत्कृतेनेत्यतञ्च गुणद्वारा गुणवचनेऽन्वेति । ततश्च तृतीयान्तं तृतीयान्तार्थकृतो यो गुण: तद्वाचिना समस्यते, अर्थ शब्देन च तृतीयान्तं समस्यत इति वाक्यद्वयं सम्पद्यते” इति भाष्ये स्थितम् । तदाह । तृतीयान्तमित्यादिना । गुणेत्यस्य तत्कृतत्वसापेक्षत्वेऽपि सौत्रः समासः । “इदं सूत्र कृतशब्दार्थद्वारक एव सामर्थ्ये प्रवर्तते । नतु साक्षात्परम्परान्वये' इति भाष्ये स्पष्टम् । नच घृतेन पाटवमित्यत्रातिप्रसङ्गश्शङ्कयः । गुणेनेति सिद्धे वचनग्रहणात् गुणोपसर्जनद्रव्यवाचिशब्दो गृह्यते, व्याख्यानात् । शंकुलया खण्डः शंकुलाखण्ड इति ॥ देवदत्त इति शेषः । शङ्कुलाखण्डो देवदत्तः, इत्येव भाष्ये उदाहृतम् । 'खडि भेदने' भावे घञ् । खण्डनं खण्डः । मत्वर्थीयः अर्श आद्यच् । शङ्कुलयेति करणे तृतीया । शङ्कुलाकृतखण्डनक्रियावानित्यर्थः । यत्तु आकडारात्’ इति सूत्रभाष्ये “समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्कयासंज्ञाशब्दभिन्न मर्थवच्छब्दस्वरूपं गुणवचनसंझं भवति” इत्युक्तम् । तदेतत् प्रकृते न प्रवर्तते । गुणमुक्तवता गुण वचनेनेति भाष्ये यौगिकत्वावगमात् । अतोऽत्र गुणशब्देन धर्ममात्रं विवक्षितम् । एवञ्च खण्डशब्दस्य क्रियावचनत्वेऽपि न क्षतिः । तत्त्वबोधिन्यान्तु “वोतो गुणवचनात्' इत्यत्र “सत्त्वे निविशतेऽपैति ” इत्यादिलक्षणलक्षितो गुणोऽत्र गृह्यत इत्युक्तम् । तच्चाख्यावसरे क्रियाया गुणत्वं नास्तीत्यप्युक्तम् । इह तु खण्डशब्दस्य क्रियावाचिनोऽपि गुणवचनत्वमास्थितम् । तत्तु प्रकृतसूत्रस्थभाष्यविरुद्धत्वात् पूर्वोत्तरविरुद्धत्वाच्चोपेक्ष्यम् । अर्थशब्देन समासमुदाहरति । धान्येनेति ॥ अर्थशब्दो धनपरः । हेतौ तृतीया । धान्यहेतुकं धनमित्यर्थः । अत्र धनस्य धान्यहेतुकत्वेऽपि तत्करणकत्वाभावादप्राप्तौ पृथगुक्तिः । धान्येनेति प्रकृत्यादित्वात्तृतीया । धान्याभिन्न धनमित्यर्थ इति केचित् । ननु शङ्कुलया खण्डः इत्यत्र “कर्तृकरणे कृता बहुळम् इत्येव सिद्धे तत्कृतेति व्यर्थमिति पृच्छति । तत्कृत इति किमिति ॥ गुणवचनेन चेत् तत्कृतेनैवेति नियमार्थन्तत्कृतग्रहणमित्यभिप्रेत्य प्रत्युदाहरति । अक्ष्णा काणः इति ॥ नह्यक्ष्णा काणत्वं कृतं, किन्तु रोगादिनेति भावः । गुणवचनेनेति किम् । गोभिर्वपावान् । गोसम्बन्धिक्षीरादिभोजनेन देवदत्तस्य वपावत्त्वमस्तीति तत्कृतत्वम् । किन्तु न गुणवचनम् ।