६९३ । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । (२-१-३१)
तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः । ऊनार्थे, माषोनं कार्षापणम् । माषविकलम् । वाक्कलहः । आचारनिपुणः । गुडमिश्रः । आचारश्लक्ष्णः । * मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्' । “ मिश्रे चानुपसर्ग मसन्धौ' (सू ३८८८) इत्यत्रानुपसर्गग्रहणात् । गुडसम्मिश्रा धानाः । “ अव रस्योपसङ्ख-यानम्' (वा १२५६) । मासेनावरो मासावरः ।
६९४ । कर्तृकरणे कृता बहुळम् । (२-१-३२)
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो हरि त्रातः । नखैर्भिन्नो नखभिन्नः । 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'
पूर्वसदृश ॥ एतैरिति ॥ पूर्व, सदृश, सम, ऊनार्थ, कलह, निपुण, मिश्र, श्लक्ष्ण, एतैरित्यर्थः । मासपूर्व इति ॥ मासेन पूर्व इति विग्रहः । मासात् प्रागुत्पन्न इत्यर्थः । यद्यप्यवधित्वसम्बन्धे * अन्यारादितरतें ’ इति । दिक्शब्दयोगे पञ्चमी प्राप्ता । दिशि दृष्टश्श ब्दो दिक्शब्द इत्यभ्युपगमात् । तथाप्यत एव ज्ञापकात् तृतीया । हेतौ तृतीयेत्यन्ये । मातृसदृश इति ॥ मात्रा सदृश इति विग्रहः । पितृसम इति । पित्रा सम इति विग्रहः । 'तुल्यार्थैरतुलोपमाभ्याम्' इति तृतीया । 'तुल्यार्थेः’ इति षष्ठयाष्षष्ठीसमासेनैव सिद्धत्वमित्याहुः । ऊनार्थेति ॥ उदाहरणसूचनमिदम् । माषोनमिति ॥ माषाख्यपरिमाण विशेषेण ऊनं परिमाणमित्यर्थः । अत एव ज्ञापकादवधित्वे तृतीया हेतौ वा । अर्थग्रहणञ्च ऊनेनैव सम्बध्द्यते, न तु पूर्वादिभिरपि । समसदृशयोः पृथगुपादानात् । अथग्रहणस्य प्रयो जनमाह । माषविकलमिति ॥ माषेण विकलमिति विग्रहः । हीनमित्यर्थः । पूर्ववत् तृतीया । वाक्कलह इति ॥ वाचा कलह इति विग्रहः । आचारनिपुण इति ॥ आचारेण निपुण इति विग्रहः। आचारहेतुकनैपुण्यवानित्यर्थः । गुडांमिश्र इति । गुडेन मिश्र इति विग्रहः । आचारश्लक्ष्ण इति ॥ आचारेण श्लक्ष्ण इति विग्रहः । आचारहेतुक कुशलत्ववानित्यर्थः । ननु गुडसम्मिश्रा इत्यत्र कथं समासः । सविशेषणत्वेऽपि समासप्रत्यय विधौ तदन्तविधिप्रतिषेधात् । तत्राह । मिश्रग्रहणे सोपसर्गस्यापि ग्रहणमिति ॥ कुत इत्यत आह । मिश्रञ्चेति ॥ असन्धौ मिश्रेत्युत्तरपदमुपसर्गहीनं तृतीयान्तात् परमन्तो दात्तामिति तदर्थ अत्रानुपसर्गग्रहणादितरत्र मिश्रग्रहणे सोपसर्गग्रहणं विज्ञायत इत्यर्थः। मासेनावर इति ॥ मासेन पूर्व इत्यर्थः । न्यून इत्यर्थे ऊनार्थकत्वादेव सिद्धम् । कर्तृ करणे ॥ कर्ता च करणञ्चेति समाहारद्वन्द्वात् सप्तमी । तृतीयेत्यनुवर्तते । प्रत्यग्रहणपरि भाषया तदन्तग्रहणम् । कृतत्यपि तथैव । तदाह । कर्तरि करणे चेति ॥ प्राग्वदिति ॥ समस्यते स तत्पुरुष इत्यर्थः । इह कृद्ग्रहणेन त्क्तप्रत्यय एव गृह्यते । बडुळग्रहणादिति भाष्यम् । अतः क्तान्तमेवोदाहरति । हरिणा त्रात इति ॥ पालित इत्यर्थः । ननु कृदन्तस्य