६८८ । खट्टा क्षेपे । (२-१-२६)
खट्टाप्रकृतिकं द्वितीयान्तं त्क्तान्तप्रकृतिकेन सुबन्तेन समस्यते, निन्दा याम् । खट्रारूढो जाल्मः । नित्यसमासोऽयम्। न हेि वाक्येन निन्दाऽवगम्यते ।
६८९ । सामि । (२-१-२७)
सामिकृतम् ।
६९० । कालाः । (२-१-२८)
- तेन' इत्येव । अनत्यन्तसंयोगार्थं वचनम् । मासप्रमितः प्रतिप
चन्द्रः । मासं परिच्छेत्तुमारव्धवानित्यर्थः।
६९१ । अत्यन्तसंयोगे च । (२-१-२९)
'कालाः’ इत्येव । अक्तान्तार्थं वचनम् । मुहूर्तं सुखम् मुहूर्तसुखम् ।
षष्ठयन्तत्वात्तत इत्रि ऋकारस्यादिवृद्धौ रपरत्वे स्वायंकार्तिः इत्येव स्यादिति भावः । वस्तुतस्तु असामर्थ्यदिह न तद्धितः । स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम् । खट्टा क्षेपे ॥ क्त्तेने त्यनुवर्तते । प्रत्ययग्रहणात्तदन्तविधिः । क्षेपो निन्दा । द्वितीयेति सुपेति चानुवर्तते । तदु भयमपि प्रत्ययग्रहणपरिभाषया तदन्तपरं सत् प्रकृतिप्रत्ययसमुदायपरम् । खट्टाशब्दस्य आरूढशब्दस्य च सुब्घटितसमुदायात्मकत्वासम्भवात् । अतः खट्टाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह । खट्टाप्रकृतिकमिति ॥ खटारूढो जाल्मः इति ॥ जाल्मोऽसमीक्ष्यकारी” इत्यमरः । खट्टा अम् आरूढ स् इत्यलौकिकविग्रहः । लौकिकविग्रहस्तु नास्तीत्याह । नित्यसमासोऽयमिति । तत् कुत इत्यत आह । न हि वाक्येन निन्दा ऽवगम्यत इति । वृत्त्यर्थबोधकं वाक्यं लौकिकविग्रहः । तत्र खट्टामारूढ इति वाक्यं हि ग्रहस्थाश्रमिणि निन्दां न गमयति । खट्वारूढ इति समासस्तु रूढ्या निन्दां गमयति । तथाच भाष्यम् । “अधीत्य स्नात्वा गुर्वनुज्ञातेन खट्टा आरोढव्या। यस्तावदन्यथा करोति, सः ‘खट्टारूढो ऽयं जाल्मः’ इत्युच्यते । अत्र जाल्म इत्यनेन उद्धृते अयं शब्दो रूढः । अवयवार्थे तु नाभिनिवेष्टव्यम्” इति सूचितम् । सामि ॥ सामीत्यव्ययमर्धे वर्तते । तत् त्क्तान्तप्रकृतिक सुबन्तेन समस्यत इत्यर्थः । सामिकृतमिति ॥ समासाभावे तु तद्धितवृत्तौ सामिकार्ति रिति स्यादिति भावः । कालाः ॥ क्तेनेत्येवेति ॥ क्तेनत्यनुवर्तत एवेत्यर्थः । कालवाचि प्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः । ननु “अत्यन्तसंयोगे च' इत्युत्तरसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । अनत्यन्तेति । मासप्रमित इति ॥ मासं प्रमित इति विग्रहः । प्रपूर्वेकात् माधातोः “ आदिकर्मणि क्तः कर्तरि च' इति कर्तरि क्तः । तदाह । मासं परिच्छेत्तुमिति ॥ इह प्रतिपचन्द्रेण मासस्य नात्यन्तसंयोग इति भावः । अत्यन्तसंयोगे च ॥ काला इत्येवेति ॥ तेन अत्यन्तसंयोगे कालवाचिनो