सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८४
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

शरदादिभ्यष्टच्स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाशु । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह । दिशा । दृश् । विश् । चेतस् । चतुर्। त्यद् । तद् । यद् । कियत् । “जराया जरस् च' (ग १४७) । उपजरसम् । 'प्रतिपर समनुभ्योऽक्ष्णः ’ (ग १४८) । 'यस्येति च' (सू ३११) । प्रत्यक्षम् । अक्ष्णः परम्' इति विग्रहे समासान्तविधानसामर्थ्याद्व्ययीभावः । 'परोक्षे iलिट्' (सू २१७१) इति निपातनात्परस्यौकारादेशः । परोक्षम् । ' परोक्षा क्रिया' इत्यादि तु अर्शआद्यचि । समक्षम् । अन्वक्षम् ।


उत्तरपदं यत् शरदादिप्रकृतिकं सुबन्तं तदन्तात् टच् स्यात् । स च अलौकिकविग्रहवाक्यान्ता वयव इत्यर्थः । उपशरदमिति ॥ “ अव्ययं विभक्ति' इत्यादिना समीपार्थकस्य उपेत्यव्यय स्य शरद इति षष्ठयन्तेनाव्ययीभावः , टच् । टचस्समासावयवत्वेन तदन्तस्याव्ययीभावसमास त्वात् 'नाव्ययीभावात्' इत्यम् । उपशरद् इत्यस्य अव्ययीभावसमासत्वाभावात् “ अनव्ययत्वा दव्ययानां भमात्रे टिलोपः' इति न भवति । विपाट्शब्दो नदीविशेषे वर्तते । “विपाशा तु विपाट् स्त्रियाम्' इत्यमरः । “लक्षणेनाभिप्रती' इति अव्ययीभावसमासः । शरदादिगणं पठति । शरदित्यादिना । अत्र झयन्तानां “झयः' इति विकल्पे प्राप्ते नित्थार्थः पाठः ।

  • जराया जरश्च' इति शरदादिगणसूत्रम् । जराशब्दस्य जरसादेशश्चास्मिन् गणे वाच्यः इत्यर्थः ।

उपजरसमिति ॥ जरायास्समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्य जराया इति षष्ठयन्ते नाव्ययीभावसमासे कृते टच्, सुब्लुक्, उपेत्यस्य पूर्वनिपातः । टचो विभक्तित्वाभावात् तस्मिन् परेऽप्राप्ते जरसि अनेन जरस्। टजन्ताद्यथायथं सुपः अम्भाव इति भावः । ‘प्रतिपरसम्’ इत्यपि गणसूत्रम् । एतेभ्यः परस्याक्षिशब्दस्य इह गणे पाठ इत्यर्थः । “यस्येति च' इति टचस्त द्धितत्वात्तस्मिन् परे इकारस्य लोप इति भावः । प्रत्यक्षमिति ॥ अक्षिणी प्रतीति विग्रहः । अक्ष्णोरभिमुखमित्यर्थः । “लक्षणेत्थम्’ इति कर्मप्रवचनीयत्वात् द्वितीया । “लक्षणेनाभिप्रती इत्यव्ययीभावः । टच्, सुब्लुक् । “यस्येति च' इति इकारलोपः । प्रत्यक्षशब्दात् यथायथं सुबुत्पत्तिः । अम्भाव इति भावः । परमिति ॥ व्यवहितमित्यर्थः । अविषय इति यावत् । अक्ष्णः परमिति विग्रहे अव्ययीभाव इत्यन्वयः । ननु परशब्दस्यानव्ययत्वात् कथमिहाव्ययी भाव इत्यत आह । समासान्तविधानसामर्थ्यादिति ॥ प्रतिपरमिति परशब्दात् परस्याक्षिशब्दस्य टजर्थं शरदादिगणे पाठोऽवगतः । “ अव्ययीभावे शरत्प्रभृतिभ्यः' इत्यव्ययी भावे टज्विहित तत्सामर्थ्यादनव्ययस्यापि परशब्दस्याव्ययीभाव इत्यर्थः । परोक्षमिति अक्ष्णः परमिति विग्रहे परमित्यस्य अक्षि इत्यनेनाव्ययीभावसमासः। टच्सुब्लुक्।परश्बदस्य ओकारोऽन्तादेशः पररूपम् । परोक्षाद्यथायथं सुप् अम्भाव इति भावः । अर्श आद्यचीति ॥ परोक्षमस्यास्तीत्यर्थे परोक्षशब्दात् धर्मप्रधानात् “अर्शआदिभ्योऽच्' इति मत्वर्थीये अच्प्रत्यये कृते “यस्येति च' इत्यकारलोपे टापि च कृते, परोक्षा क्रिया, इत्यादि ज्ञेयमित्यर्थः । अत्र गणसूत्रे