पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
४८३
बालमनोरमा ।


६७५ । अन्यपदार्थे च संज्ञायाम् । (२-१-२१)

अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ।

६७६ । समासान्ताः । (५-४-६८)

इत्यधिकृत्य ।

६७७ । अव्ययीभावे शरत्प्रभृतिभ्यः । (५-४-१०७)


चेति ॥ वार्तिकम् । चकार एवार्थे । भाष्ये चकारविहीनस्यैव पाठात् । सप्तगङ्गमिति ॥ सप्तानां गङ्गानां समाहार इति विग्रहे “तद्धितार्थोत्तरपदसमाहारे च' इति द्विगुसमासं वाघित्वा अव्ययीभावसमासः । द्वियमुनमिति । द्वयोर्यमुनयोस्समाहार इति विग्रहः । “अत्र नदी शब्देन नदीशब्दविशेषस्य नदीवाचकानाञ्च ग्रहणम्” इति सङ्खयासंज्ञासूत्रे भाष्ये स्पष्टम् । तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्द्यति । अन्यपदार्थे च ॥ सङ्खयेति निवृत्तम् । नदीभिरित्यनुवर्तते । तदाह । सुबन्तं नदीभिरिति ॥ समस्यत इति ॥ सोऽव्ययी भावः इत्यपि बोध्यम् । संज्ञानवगमादिति ॥ सम्यक् ज्ञायत इति संज्ञा । “ आतश्चोपसर्गे' इति कर्मण्यङ् । उन्मत्ता गङ्गा यस्मिन्निति वाक्येन देशविशेषस्यानवगमादिह नित्यसमास इत्यर्थः । ततश्च नास्ति लौकिकविग्रहः अस्वपदविग्रहो वेति फलति । वस्तुतस्तु विभाषाधि कारादयमपि समासो वैकल्पिक एव । अत एव * द्वितीयतृतीय’ इति सूत्रे अन्यतरस्या ङ्ग्रहणेन उत्सर्गापवादयोर्महाविभाषाविषयत्वात् अपवादाभावे उत्सर्गस्याप्रवृत्तिरिति ज्ञापितेऽर्थे उन्मत्तगङ्गमित्युदाहृतम् । “अव्ययीभावेन मुक्ते बहुव्रीहिर्न” इति चोक्तं भाष्ये । अस्य समासस्य नित्यत्वे तु तदसङ्गतिस्पष्टैव । कदाप्यव्ययीभावमुक्तयसम्भवात् । समासान्ताः ॥ इत्यधिकृत्येति ॥ आपादपरिसमाप्तेरिति भावः । “ अत्र समासपदम् अलौकिकविग्रह वाक्यपरमेव । अत एव बहुकुमारीख्यत्र हस्वो न' इति “गोस्त्रियोः' इति सूत्रे “अन्तः' इति सूत्रे च भाष्ये स्पष्टम् । एवञ्चालौकिकविग्रहवाक्ये समाससंज्ञासमकालमेव समासान्त इति सिद्धान्तः । अन्तशब्दश्चरमावयववाची, अत एव उपशरदमित्यादौ “नाव्ययीभावात् इत्यम् । तत्र टचस्तदनवयवत्वे टजन्तस्याव्ययीभावसमासत्वाभावादम् न स्यात् । तथाच टचस्त दनवयवत्वे * अव्ययानां भमात्रे टिलोपः' इति प्रसज्येत । टचस्तदवयवत्वे तु तदन्तस्यैवाव्ययी भावसमासतया अव्ययत्वादुपश्शरद् इत्यस्याव्ययत्वाभावान्न टिलोपः । समासान्तप्रत्ययाश्चालौ किकविग्रहवाक्ये सुपः पुरस्तादेव भवन्ति । अत एव “प्रत्ययस्थात्' इति सूत्रभाष्ये “बहु चर्मिका' इत्युदाहृतं सङ्गच्छते । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः । अव्ययीभावे ॥ 'राजा हस्सखिभ्यष्टच्’ इत्यतः टजिति अनुवर्तते । तदाह । शरदादिभ्यः इति ॥ अव्ययीभावे